ईश्वरप्रोक्तं शिवपञ्चाक्षरमन्त्रजपफलम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
ईश्वरः (उवाच)
पञ्चाक्षरं परमपावनमेतदेव
रुद्रत्वदायि गिरिजे विरजो भवेत्सः ॥ २६॥
वेदा यज्ञा व्रता ये शिखिमुखविहितं होमजालं च कृत्स्नं
कन्या पृथ्वी च वाणी द्विजगणकलितामप्यधन्यो भवेत ।
श्रीपञ्चाक्षरजापनोज्झितमतिर्यस्तस्य किं सेवनैः
जाप्यं त्वेतदनुक्षणं द्विजगणैः पञ्चाक्षरं मे परम् ॥ २७॥
पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
शान्ताः कृतान्तान्तकमर्चयन्तः
क्षेत्रेषु तिष्ठन्ति सदैव सन्तः ॥ ३०॥
पञ्चाक्षरावृत्तिकृतां क्षरेदघं
क्षारं भुवं त्यज्य तदक्षरं व्रजेत् ।
न यक्षरक्षःप्रभवं भयं भवेत्
त्र्यक्षप्रसादल्लभते फलाक्षयम् ॥ ३१॥
प्रणवाद्यन्तमुमे यतिर्जपेत्
नियतिर्वै श्रुतिचोदिता मृषा न ।
तव बीजमुमे विधारयन्
जपतां जाप्यमिदं फलायते ॥ ३२॥
पुण्यानि वर्धयति पापततिं धुनोति
मुख्याविमुक्तसदने वसतिं करोति ।
पञ्चाक्षरं मम मनुं जपति स्थिरान्त-
स्तस्याम्बिके परममुक्तिपदं ददाति ॥ ३३॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवपञ्चाक्षरमन्त्रजपविध्युपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३८ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 38 . vAvRRittashlokAH ..
Notes:
Śiva शिव outlines to Devī देवी; the Phalam फलम् of Japa जप of the ŚivaPaṅcākṣaraMantra शिवपञ्चाक्षरमन्त्र i.e. Namaḥ Śivāya नमः शिवाय.
Proofread by Ruma Dewan