ईश्वरप्रोक्तं शिवस्तोत्रम्

ईश्वरप्रोक्तं शिवस्तोत्रम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवपार्वतीसंवादे - स्तुताय स्तुतिरूपाय स्तूयमानाय सर्वदा । स्तुतिहेतुनिधानाय नमस्त्रिणयनाय ते ॥ १२॥ देवाय दिव्यरूपाय नमो दिव्यतमाय ते । पराय परमेशाय परमार्थैकहेतवे ॥ १३॥ परापरविमुक्ताय नमः परतराय ते । पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे ॥ १४॥ पूज्यानामपि पूज्याय नमः पूज्यतमाय ते । नित्याय नित्यनित्याय सर्वनित्यैकहेतवे ॥ १५॥ नित्यानामपि नित्याय नमो नित्यतमाय ते । दीप्ताय दीप्तदीप्ताय सर्वदीप्त्येकहेतवे ॥ १६॥ दीप्तनामपि दीप्ताय नमो दीप्ततमाय ते । साराय साररूपाय सर्वसारैकहतवे ॥ १७॥ साराणामपि साराय नमः सारतराय ते । शान्ताय शान्तरूपाय सर्वशान्त्येकहेतवे ॥ १८॥ शुद्धानामपि शुद्धाय नमः शुद्धतमाय ते । कालाय कालरूपाय सर्वकालैकहेतवे ॥ १९॥ कालानामपि कालाय नमः कालतमाय ते । सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे ॥ २०॥ मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय ते । व्योमप्रमाणरूपाय ईशानाय नमो नमः ॥ २१॥ व्योमप्रमाणभासाय अघोराय नमो नमः । व्योमप्रमाणसद्याय सद्योजाताय ते नमः ॥ २२॥ व्योमप्रमाणविद्याय विद्येशाय नमो नमः । व्योमप्रमाणकालाय कालेशाय नमो नमः ॥ २३॥ व्योमप्रमाणधर्माय धर्मेशाय नमो नमः । व्योमप्रमाणभोगाय भोगेशाय नमो नमः ॥ २४॥ व्योमप्रमाममोक्षाय मोक्षेशाय नमो नमः । व्योमप्रमाणविश्वाय विश्वेश्वर नमोऽस्तु ते ॥ २५॥ एकदेहद्विदेहाय बहुदेहाय ते नमः । देहातीतामरज्ञाय विश्वेशाय नमोऽस्तु ते ॥ २६॥ एककालद्विकालाय बहुकालाय ते नमः । कालसङ्ख्यास्वरूपाय त्रिणेत्राय नमो नमः ॥ २७॥ एकवक्त्रद्विवक्त्राय बहुवक्त्राय ते नमः । वक्त्रासङ्ख्येययुक्ताय वक्त्रेशाय नमो नमः ॥ २८॥ एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः । नेत्रासङ्ख्येययुक्ताय त्र्यम्बकाय नमो नमः ॥ २९॥ एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः । एकनासद्विनासाय बहुनासाय ते नमः ॥ ३०॥ नासाऽसङ्ख्येययुक्ताय नित्यं शर्वाय ते नमः । एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः ॥ ३१॥ जिह्वाऽसङ्ख्येययुक्ताय नीलकण्ठाय ते नमः । एकहस्तद्विहस्ताय बहुहस्ताय ते नमः ॥ ३२॥ हस्तासङ्ख्येययुक्ताय शङ्कराय नमो नमः । एकशस्त्रद्विशस्त्राय बहुशस्त्राय ते नमः ॥ ३३॥ शस्त्रासङ्ख्येययुक्ताय ईशानाय नमो नमः । एकपादद्विपादाय बहुपादाय ते नमः ॥ ३४॥ पादासङ्ख्येययुक्ताय महादेव नमोऽस्तु ते । अव्यक्ताय नमस्तुभ्यं शाश्वताय नमो नमः ॥ ३५॥ महेश्वर नमस्तेऽस्तु महायोगिन्नमोऽस्तु ते । महोत्तम नमस्तेऽस्तु महारूप नमोऽस्तु ते ॥ ३६॥ सदाशिव नमस्तेऽस्तु सदाशुद्ध नमोऽस्तु ते । सदोज्ज्वल नमस्तेऽस्तु महादेव नमोऽस्तु ते ॥ ३७॥ नमस्ते भगवन् शान्त नमस्ते भगवन् ध्रुव नमस्ते भगवन् दीप्त नमस्ते भगवन् हर ॥ ३८॥ अजिताय नमस्तुभ्यं भस्माङ्गाय नमोऽस्तु ते । अनन्ताय नमस्तुभ्यं सर्वगाय नमोऽस्तु ते ॥ ३९॥ (फलम्) इति स्तवेन दिव्येन यः स्तौति परमेश्वरम् । स विधूयाशु पापानि शिवलोके महीयते ॥ ४०॥ भोगार्थी लभते भोगान् राज्यार्थी राज्यमाप्नुयात् । कन्यार्थी लभते कन्यां योगार्थी योगमाप्नुयात् ॥ ४१॥ मुच्यते व्याधितो रोगीर्दुःखी दुःखात्प्रमुच्यते । बन्धनान्मुच्यते बद्धो यशोऽर्थी च यशो लभेत् ॥ ४२॥ यान् यांश्चिन्तयते कामान् तांस्तान् प्राप्नोति मानवः । शिवस्य पदमाप्नोति नित्यं पठति यो नरः ॥ ४३॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४३ शिवस्तुतिः । १२-४३॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 43 shivastutiH . 12-43.. Notes: ŚivaTriṃśaduttaraśataNāmāvaliḥ शिवत्रिंशदुत्तरशतनामावलिः; that is derived from the Īśvaraproktaṃ ŚivaStotram ईश्वरप्रोक्तं शिवस्तोत्रम्, can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shiva Stotram
% File name             : IshvaraproktaMshivastotram.itx
% itxtitle              : shivastotram IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivastotram
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 43 shivastutiH | 12-43||
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org