ईश्वरेण देवान्प्रति यमानुशासनोपदेश
ये पूजयन्ति शशिखण्डशिखण्डलिङ्गं
बिल्वीदलैश्च नियमान्महिते प्रदोषे ।
नित्यं त्रिकालमपि केवलमेककालं
कालान्तकं तव यमान्वहमर्चनीयाः ॥ २६॥
भस्मात्रिपुण्ड्रनिटिलाः कुटीलापि पापैः
रुद्राक्षवक्षसुगलाकरकर्णयुग्माः ।
पञ्चाक्षरैकनिरताः शतरुद्रमन्त्र-
जप्यानुरक्तहृदयास्तव पूजनीयाः ॥ २७॥
ये तुङ्गलिङ्गदृगपाङ्गितपाणिसङ्गि-
शाङ्गाः कृतार्थतनवः तव लोकसङ्गाः ।
नो यान्ति यान्ति सदनं मम राजताद्रि-
पापाद्रिभङ्गकुलिशाः कुशला नरेषु ॥ २८॥
मद्भक्तपूजनपरा मम सर्ववर्णैः
वर्णाश्रमादिरहिता अपि ते सुपूज्याः ।
वर्णाश्रमेषु निरता मम भक्तिहीना
नैव भ्रमन्ति विविधा मम धर्मभासैः ॥ २९॥
तेषां त्वमेव फलदोऽसि सुधर्मवर्त्मा ।
पापेषु दुर्मुखतया परिशासकोऽसि ॥ ३०॥
हे चन्द्रचूड शरणागतदीनबन्धो
विश्वेश शङ्कर मृडाव्यय पाहि शम्भो ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३१॥
हे दक्षशिक्ष गजकालहरान्तकारे
श्रीव्योमकेश परमेश्वर पञ्चवक्त्र ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३२॥
हे देवदेव जगतां जनकाव मां त्वं
विश्वाधिक त्रिदशनायक कामवैरिन् ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३३॥
हे खण्डपर्शु वरकुण्डलकुण्डलीश
वेतण्डशुण्डजनकोत्तमवेदगीत ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३४॥
हे शूलपाणिकमलान्धकदैत्यशत्रो
भर्ग त्रियम्बक सदाशिव कालकाल ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३५॥
ये देवदेव हर रुद्र उमासहाय
ब्रह्मोत्तमाङ्गकलितामलस्रग्धरेति ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३६॥
हे मन्मथान्तक महेश पिनाकपाणे
ज्वालावलीनयन वेदकुलावतंस ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३७॥
हे विश्वसर्जनविधानविनाशकेश
आशावसान परमेति शिवेति नित्यम् ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः ॥ ३८॥
वैकुण्ठनेत्रसरसीरुहपूज्यपाद
मातङ्गसङ्गकटिचर्मवसेश्वरेति ।
ये कीर्तयन्ति सततं हिमधामचूडं
ते शाङ्करास्तव यमान्वहमर्चनीयाः
लुम्पन्ति धातुविहितानि ललाटभागे
यान्यक्षराणि सुकृतेतरपाकदानि ।
तानि त्रिपुण्ड्ररचनेन समृलजाल-
लूनानि शङ्कर कृपावशतो भवन्ति ॥ ४०॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये ईश्वरेण देवान्प्रत्
यमानुशासनोपदेशः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १५ । २६-४०॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 15 . 26-40..
Proofread by Ruma Dewan