ऋषि अगस्त्यकृतः शिवस्तवः
(शिवरहस्ये महामुनि अगस्त्यकृतं)
पतिस्त्वं सर्वस्य श्रुतिशिरसि रुद्रस्य वचसा
नमोवाक्यैर्वक्ति प्रमथपतिभक्ताश्च नभसाम् ।
वदत्येवं वेदो शिवहरभवाद्यैश्च वचनैः कथं
त्वन्ये तुल्यां परमशिव शेषा हि विहिताः ॥ ३॥
यतो जाताः सर्वे विधिहरिहरेन्द्रार्कमरुतो
दिशां नाथा रुद्रा गिरिनदिसमुद्रा ग्रहगणाः ।
यमध्यास्ते विश्वं सुरनरवरं कर्म विविधं
महाभूतैश्चान्ते विलयति महेशे शिवतरे ॥ ४॥
भुवनगगनसंस्थं कोशकाशं महेशं
सिततरमृदुकायं कल्पितं वेदसङ्घैः ।
दृढतरयमिचित्तच्छेदकोशैकगम्यं
विलपनमधुराद्यैः सच्चिदानन्दशब्दैः ॥ ५॥
अहमहमिति सर्वप्रत्ययात्मानमाराद्विमृशत
करुणानामज्ञमाने हि साम्यम् ॥ ६॥
हिरण्यबाहुं सुहिरण्यसन्दृशं गूढं सदानन्दघनं महेशम् ।
प्रियं प्रियाणां च सबाह्यमान्तरं तं व्योमकेशं परमं च कञ्च खम् ॥ ७॥
देवमीशमगजामनोहरं कार्यकारणपरम्पराततम् ।
वृक्षबीजमिव वृक्षःविस्तरैरेक एव भगवान् बहुत्वधृक् ॥ ८॥
अपारमीशानचरित्रमेतत्कथञ्च वर्णात्मकतामियान्मुने ।
रूपावलोकेऽपि स रूपभाग्भवेद्यथा स्वभक्तैर्लक्षणं यथाब्धौ ॥ ९॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये अगस्त्येश्वरशिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २१ । ३-९॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 21 . 3-9..
Notes: Mahāmuni Agastya महामुनि अगस्त्य worships Śiva शिव in form of Agastyeśvara Śivaliṅga अगस्त्येश्वर शिवलिङ्ग that he had established in Avimukta (Vārāṇasī) अविमुक्त (वाराणसी).
Proofread by Ruma Dewan