ऋषिभिः कृता शिवस्तुतिः
कण्वः -
उपमन्युवरप्रदोरुमन्यो शतमन्यो कृतदक्षशिक्ष शम्भो ।
सुरमूर्धसरिन्नगेन्द्रकन्यावर मन्येऽहमवैमि भक्तिधन्यम् ॥ ४॥
गिरिवरधनुश्शरमुरहर वरकाकोदरहारमौर्वीक ।
उर्वीरथ रथिकाग्रे प्रविजेतः पुरहन्भवाद्य पाहि ॥ ५॥
कुसुमशरारिपुरारिपादपद्मे प्रविश तरारिव शिव प्रकृष्टपार्थः (?) ।
मनसिजमनसा जगत्प्रमुग्धं हर मुग्धेन्दुकिरीटकोटिजूट ॥ ६॥
विश्वामित्रः -
हेमाम्बुजोद्भवषडाननवारणास्यसंसेविताङ्घ्रिकमलं तरुणेन्दुचूडम् ।
मन्दारवृन्दपरिवन्दिमुकुन्दनेत्रपादारविन्दमगजापतिमाश्रयामि ॥ ९॥
नागनागनगवासकृत्तिधृग्भूरिहारसुग्वीरकुमार ।
मारमारकरवीरसुमाद्य स्रग्धरामरवराव महेश ॥ १०॥
कपिलः -
गङ्गोत्तमाङ्ग शशिसङ्ग भुजङ्गसङ्ग
तुङ्गोत्थिताङ्ग वृषभाङ्ग महेश शृङ्ग ।
श्रीव्योमकेश भवभङ्गभुजङ्ग शम्भो
पाहीश मां तव दयाप्रसरैरपाङ्गैः ॥ १३॥
यामिनीरमणखण्डधारिणं कामिनीविधृतमामिविग्रहम् ।
स्तौमि देवमगजामनोहरं नौमि कायमनसा सदैव तम् ॥ १४॥
दुर्वासाः -
अभेद्य वेद्योत्तम वेदवेद्य विद्युत्प्रभोद्यत्सुकपर्द शम्भो ।
विद्याऽप्यविद्याऽपि च ते कटाक्षतः सुद्योततेऽद्यैव विनाशमेति ॥ १६॥
उडुगणरतिचूडं हृज्जडानां च दूरं
मृडमजडमवेद्यं वेदवेदान्तसङ्गैः ।
दृढतरहृदयाब्जे गाढमालिङ्ग्य देवीं
स्थितमनलशिखाग्रे शूलपाणे मजे त्वाम् ॥ १७॥
भृगुः -
अजगजपुरमारदक्षशिक्षं यमभगमुरवैरिगर्वनाशम् ।
जनवनपितरं ऋषिं महेशं मनसा यामि कलाधरोरुमौलिम् ॥ २०॥
जनकं श्रुतिगीतमेनमेकं विधिविष्ण्विन्द्रयमानिलानलानाम् ।
मरुतां पितरं महेशमाद्यं श्रुतिवेद्यं परमं नतोऽस्मि पूज्यम् ॥ २१॥
सनन्दः -
अनीशं त्वामीशं वदति रुशतीमिः श्रुतितमा
सनाथं त्वामाद्यं भवहरम सेद्यं हि करणैः ।
असङ्गं सङ्गेषु प्रथितपरमानन्दमधुरं
धरानीरव्योम्नां पवनतपनैरेव जगति ॥ २३॥
पशुपिशितहुताशतर्पिताशाः कथमधुना सुरा हि सप्रकाशाः ।
शरणाय भवन्ति नारकाणां करुणावारिनिधि विहाय देवम् ॥ २४॥
सानन्दः -
अनशनमननैरुपायसङ्घैर्न हि मोदाय न वैनसां क्षयाय ।
अवनीतलपालसन्निधौ प्रणामः तव भक्त्या सुकरो हि बन्धमुक्तयै ॥ २६॥
रमारमणकारणं विधिहरीन्द्रसन्तोषणं
गरारुणगलान्तरं कुसुमबाणसंशोषणम् ।
भजामि पवनाशितप्रथिनहारबाणासनी-
कृतागपतिकन्य कापतिमपारवेदैषणम् ॥ २७॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये ऋषिभिः कृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २५ । ४-२७॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 25 . various 4-27
Notes: Ṛṣi-s ऋषि; namely Kaṇva कण्व, Viśvāmitra विश्वामित्र, Kapila कपिल, Durvāsā दुर्वासा, Bhṛgu भृगु, Sananda सनन्द and Sānanda सानन्द, worship and eulogize Śiva शिव.
Proofread by Ruma Dewan