ऋषि गौतमकृता शिवस्तुतिः
उक्षवाहमरविन्दलोचनेनार्च्यपादयुगलेन्दुसुचूडम् ।
वेदवृन्दकसनन्दनस्तुतं नन्दिनक्त्रमलेक्षणं भजे ॥ ६॥
स्कन्दतातमखिलार्थदायकं सुन्दराङ्गमखिलात्मकमेकम् ।
मन्दारमन्दिरनतप्रियवामदेवं सामाङ्गसंस्तुतमुमाधवमादिदेवम् ॥ ७॥
कामदाहक सुगर्चित शम्भो व्योमकेश परिपालयाद्य माम् ।
पद्मनन्दनसनन्दवन्दित इन्दुकुन्दधवलाङ्गकिरीट ॥ ८॥
बिन्दुनादरहितं प्रणवाछं छन्दसां च निलयं भज शम्भुम् ।
इभनिभवदनारविन्दलोभं भसितोद्भवभासमासिताङ्गम् ॥ ९॥
भवभयहरणं भवोद्भवं तं प्रसभं स्तौमि भवं भवानिनाथम् ।
भव भवदीयकटाक्षसङ्घैः मम हृत्सङ्गतरङ्गितो भवाब्धिः ॥ १०॥
तत्स्तुत्या तु तदा प्रीतस्तमाह परमेश्वरः ॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये ऋषि गौतमकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १८ । ६-११(१)॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 18 . 6-11(1)..
Proofread by Ruma Dewan