ऋषिगौतमकृतं शङ्करस्तोत्रम्
(शिवरहस्यान्तर्गते उग्राख्ये)
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं भजान्वहम् ॥ ८५॥
यो वेदान्तौघमृग्यात्मा यो वेदान्तशिरोमणिः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८६॥
यो विष्णुमौलिमन्दारमकरन्द्रार्दपादुकः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८७॥
कन्दर्पदर्पदमनो यो नित्यो यो मनोन्मनः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८८॥
विदारितनृसिम्हो यो योऽसौ शारभरूपधृक् ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ८९॥
यतः सर्वमभूद्दृश्यं जगदेतच्चराचरम् ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९०॥
यद्भयात्पवते वातो यद्भीत्योदेति भानुमान् ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९१॥
यद्भयादनलेन्द्रौ च स्वस्वकर्मणि तिष्ठतः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९२॥
यो अग्नावोषधीष्वप्सु विश्वं व्याप्याधितिष्ठति ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९३॥
योऽनन्तो निष्कलोऽनन्तो निर्गुणो निरुपाधिकः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९४॥
यः सर्वकर्ता सर्वात्मा सर्वसाक्षी सदाशिवः ।
तमेव देवदेवेशं भज शङ्करमन्वहम् ॥ ९५॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमकृतं शङ्करस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। ८५-९५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 85-95..
Proofread by Ruma Dewan