ऋषिकश्यपप्रोक्तं शिवध्यानम्
(शिवरहस्यान्तर्गते भीमाख्ये)
हृत्पद्मसद्मगं देवं त्रिणेत्रं चन्द्रशेखरम् ।
सर्वाभरणसंयुक्तं फुल्लपञ्चमुखाम्बुजम् ॥ ७॥
त्रिपुण्ड्रेनोज्ज्वलत्फालं कुपाशाहि त्रिशूलभृत् ।
वृत्तबाहुं च निर्मृष्टप्रभाभरणशोभितम् ॥ ८॥
सर्वाङ्गसुन्दरीं देवीं चन्द्रार्धमकुटोज्ज्वलाम् ।
नासाभरणशोभाढ्यां रत्नाभरणभासुराम् ॥ ९॥
ताटङ्कद्वयसंशोभिमहेन्दुसदृशाननाम् ।
महागन्धजकस्तूरी पाटीरद्रवलेपिताम् ॥ १०॥
चम्पकैर्मल्लिकाजाजिमालतीसरभूषिताम् ।
ताम्बूलरागसंशोभि बिम्बाधरमनोहराम् ॥ ११॥
हस्तद्वयाग्रसंशोभिकिङ्किणीनूपुरोज्ज्वलाम् ।
फुल्लहेलकहस्ताग्रां हरवामाङ्कगां सदा ॥ १२॥
पार्श्वद्वये षडास्येन गजास्येन च शोभिताम् ।
ध्यायेदेवं महादेवं साम्बं चारुत्रिलोचनाम् ॥ १३॥
शुद्धस्फटिकसङ्काशं नीलकण्ठं शिवां तथा ।
महामरतकीगर्भसच्छायां चारुहासिनीम् ॥ १४॥
॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शिवध्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १९ । ७-१४॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 19 . 7-14..
Proofread by Ruma Dewan