श्रीऋष्यशृङ्गाष्टकम्
श्रीऋष्यशृङ्गमुनये करुणाकराय
सद्यः सुवृष्टिपरिवर्धनकारणाय ।
शान्ताधिपाय शतमन्युसुपूजिताय
श्रीमद्विभाण्डकसुताय सदा नमस्ते ॥ १॥
शान्त्यादिसाधनसुपूरितमानसाय
कान्ताय कन्तुपरिसेवितपादुकाय ।
क्षुत्क्षान्तलोकपरिरक्षणपण्डिताय
सर्वार्थदाय गुरवे ऋषये नमस्ते ॥ २॥
सर्वात्मकाय कलिदोषविशोषणाय
विद्याभिवेद्यचरणाय सुवर्षणाय ।
पापापहाय परितापनिवारणाय
ब्रह्मात्मबोधजनकाय नमो नमस्ते ॥ ३॥
रक्षोघ्नमन्त्रपरितर्जितराक्षसाय
श्रीसूर्यवंशपरिवर्धनदीक्षिताय ।
तुङ्गानदीतटनिवाससमुत्सुकाय
चन्द्राननाय मुनये सततं नमस्ते ॥ ४॥
तुङ्गाङ्गदेशदुरवग्रहनिग्रहाय
जीमूतजातपरिकर्षणतत्पराय ।
दैन्यापहाय धनधान्यसमृद्धिदाय
तस्मै नमो भगवते जगतां हिताय ॥ ५॥
विप्रोत्तमाय विदुषां परितोषणाय
सत्यादिपोषणरताय सदात्मकाय ।
काव्यार्थसारहृदयाय कविप्रियाय
तस्मै नमोऽस्तु सततं विदुषां वराय ॥ ६॥
कल्याणशीलकलिताय कलान्विताय
मन्दस्मितास्यकमलाय मनोहराय ।
धर्मार्थकामवरमोक्षफलप्रदाय
नित्यं नमोऽस्तु परमेश्वरपूजकाय ॥ ७॥
राजाधिराजपरिसन्नुतवैभवाय
भव्याय दिव्यसुगुणाय शुभप्रदाय ।
सर्वाङ्गसुन्दरकलेबरशोभिताय
श्रुत्येकवेद्यनिजरूपविदे नमस्ते ॥ ८॥
शृङ्गान्विताय वरमङ्गलकारकाय
श्रीचन्द्रचूडकरुणारसपोषिताय ।
आश्चर्यदिव्यचरिताय मृगीसुताय
मृत्युञ्जयाय महते सततं नमस्ते ॥ ९॥
श्रीशारदापदसरोजमुपासितेन
श्रीशङ्करार्यवरपीठसुसंस्थितेन ।
सच्चित्सुखात्मकगुरोः करसम्भवेन
स्तोत्रं कृतं सुखकरं हि नृसिंहनाम्ना ॥ १०॥
ऋष्यशृङ्गमुनेस्स्तोत्रं यत्र यत्र हि पठ्यते ।
तत्र तत्र सुवृष्टिः स्याद्धनधान्यसमृद्धिदा ॥॥
इति शृङ्गेरीजगद्गुरु श्रीश्रीश्री नृसिंहभारतीमहास्वामिभिः
विरचितं श्रीऋष्यशृङ्गाष्टकं सम्पूर्णम् ॥