ऋभुकृता शिवस्तुतिः
दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर-
ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।
भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा-
विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १.१०॥
भालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्ष्यीभूतगरप्रभक्ष भगवन्भिक्ष्वर्च्यपादाम्बुज ॥ १.११॥
गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
ब्रह्मेन्द्रानमरान्त्रिविष्टपगतान्निष्ठाहि मे तादृशी ॥ १.१२॥
नृत्ताडम्बरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा
त्रुट्यत्सोमकलाललामकलिकाशम्याकमौलीनतम् ।
उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १.१३॥
भालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं
पाहीशान दयानिधान भगवन्भालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक्पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १.१४॥
नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तममहालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥
भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १.१६॥
धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः ।
दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १.१७॥
उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृ-
त्त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह-
प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥
संसारार्गलपादबद्धजनतासम्मोचनं भर्ग ते
पादद्वन्द्वमुमासनाथ भजतां संसारसम्भर्जकम् ।
त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवे-
द्दुःखानां परिमार्जकं तव कृपावीक्षावतां जायते ॥ १.१९॥
विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण ।
पाहि क्षमारथविकर्षसुवेदवाजि-
हेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥
विभूतीनामन्तो न हि खलु भवानीरमण ते
भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥
वरं शम्भो भावैर्भजनभावेन नितरां (भावैर्भवभजनभावेन)
भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृ-
ग्भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १.२२॥
सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥
भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग
गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।
लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह-
सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥
वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे
धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।
सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणा-
दादायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १.२५॥
त्वत्कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः
तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।
त्वद्वक्त्रामल निर्जरोज्झित महासंसार सन्तापहं
विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥
सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७॥
॥ इति शिवरहस्यान्तर्गते ऋभुकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १ । १०-२७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 1 . 10-27..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan