ऋभुकृतस्सङ्ग्रहोपदेशः
अहमेव परं ब्रह्म अहमेव सदाशिवः ।
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ ४७.२॥
अहमेव हि चैतन्यमहमेव हि निष्कलः ।
अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ ४७.३॥
अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ ४७.४॥
अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ ४७.५॥
अहमेवाहमेवोक्तः अहमेव हि शङ्करः ।
अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ ४७.६॥
अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ ४७.७॥
अहमेव मनोरूपं अहमेव हि शीतलः ।
अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ ४७.८॥
॥ इति शिवरहस्यान्तर्गते ऋभुकृतस्सङ्ग्रहोपदेशः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४७। २-८॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 47. 2-8..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan