ऋभुप्रोक्तं आनन्दरूपत्वनिरूपणम्
(चिदानन्दोऽहमद्वयः)
अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् ।
ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२॥
विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः ।
वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३॥
(वृत्तिशून्यं सुखात्माहं वृत्तिहीनं सुखात्परम्) ॥ २७.३॥
जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् ।
आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४॥
कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः ।
गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५॥
गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् ।
ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६॥
सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः ।
लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ २७.७॥
भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः ।
क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८॥
सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः ।
सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९॥
वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः ।
शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१०॥
अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः ।
वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११॥
कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः ।
सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२॥
जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् ।
शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३॥
शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।
आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७.१४॥
द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।
एवमादिमहानन्द अहमेवेति भावय ॥ २७.१५॥
शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।
एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७.१६॥
एक एव महानात्मा एकसङ्ख्याविवर्जितः ।
एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७.१७॥
विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।
हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७.१८॥
ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।
सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७.१९॥
ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।
अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७.२०॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आनन्दरूपत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २७। २-२०॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 27. 2-20..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan