ऋभुप्रोक्तं आत्मानन्दनिरूपणम्
(आनन्दं परमं मानं)
चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.५॥
चैतन्यमात्रमोङ्कारः चैतन्यं सकलं स्वयम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.६॥
आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.७॥
अहमेव हि गुप्तात्मा अहमेव निरन्तरम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.८॥
अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.९॥
अहमेवाखिलाधार अहमेव सुखात्सुखम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१०॥
अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.११॥
अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१२॥
अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१३॥
अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१४॥
अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१५॥
अहमेव हि जीवात्मा अहमेव परात्परः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१६॥
अहमेव हि वाक्यार्थो अहमेव हि शङ्करः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१७॥
अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१८॥
अहमेवाहमेवाहं अहमेव स्वयं स्वयम् ।
अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४.१९॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मानन्दनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १४ । ५-१९॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 14 . 5-19..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan