ऋभुप्रोक्तं आत्मैवनिरूपणम्
आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३॥
आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४॥
आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ ३६.५॥
आत्मैव शान्तिकलनमात्मैव मनसा वियत् ।
आत्मैव सर्वं यत्किञ्चिदात्मैव परमं पदम् ॥ ३६.६॥
आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७॥
आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८॥
आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९॥
आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१०॥
आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मैवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३६। ३-११॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 36. 3-11..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan