ऋभुप्रोक्तं आत्मज्ञाननिरूपणम्
आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत्सुखम् ।
आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥
आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् ।
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥
आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् ।
आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥
आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः ।
आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥
आत्मज्ञानं चित्तनाश आत्मज्ञानं विमुक्तिदम् ।
आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥
आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् ।
आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥
आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् ।
आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥
आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि ।
आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥
आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः ।
आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥
आत्मज्ञानं परो धाता आत्मज्ञानं स्वसम्मतम् ।
आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥
आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् ।
आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मज्ञाननिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३६। १२-२४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 36. 12-24..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan