ऋभुप्रोक्तं आत्मवैभवनिरूपणम्
(आत्मैव सर्वनित्यात्मा)
आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन ।
आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०.१८॥
आत्मज्योतिरहं भूतमात्मैवास्ति सदा स्वयम् ।
स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९॥
स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् ।
स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०.२०॥
स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः ।
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१॥
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ।
स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२॥
स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ।
अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३॥
आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् ।
स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६॥
स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते ।
स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७॥
स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः ।
स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८॥
स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः ।
स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ।
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥
स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः ।
स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ॥ २०.३१॥
अखण्डः परिपूर्णोऽहमखण्डरसपूरणः ।
अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥
इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक्स्वयम् ।
अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥
अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । २०।३४(१)
अहमेव परं ब्रह्म अहमेव परात्परः ।
अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥
अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः ।
आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०.४५॥
नान्यत्किञ्चिदहं ब्रह्म नान्यत्किञ्चिच्चिदव्ययः ।
आत्मनोऽन्यत्परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥
आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।
आत्मन्येवात्मना चित्तमात्मैवाहं न तत्पृथक् ॥ २०.४७॥
आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे ।
आत्मैवाहं गुणो नास्ति आत्मैव न पृथक्क्वचित् ॥ २०.४८॥
अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् ।
अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥
आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् ।
अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥
जीवभावं सदासत्यं शिवसद्भावमीदृशम् ।
विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥
अहमेव सदा पूर्णं अहमेव निरन्तरम् ।
नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥
अहमेव परानन्द अहमेव क्षणान्तिकः ।
अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥
वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् ।
अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥
अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः ।
इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मवैभवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २०। १८-२३, २६-३४(१), ४४-५५॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 20. 18-23, 26-34(1), 44-55..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan