ऋभुप्रोक्तं अहं ब्रह्मास्म्यहं मन्त्रनिरूपणम्
अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९॥
अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५०॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१॥
अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२॥
अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४॥
अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५॥
अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६॥
अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७॥
अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८॥
अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदम् ।
अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकम् ॥ ९.५९॥
अहं ब्रह्मास्म्यहं मन्त्रः अन्यत्सर्वं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदम् ॥ ९.६०॥
अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९.६१॥
सप्तकोटिमहामन्त्रा जन्मकोटिशतप्रदाः ।
सर्वमन्त्रान्समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९.६२॥
सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे ।
मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९.६३॥
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मास्म्यहं मन्त्रनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ९ । ४९(२)-६३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 9 . 49(2)-63..
Notes :
There is numbering error in the source text from shloka 43 onwards.
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan