ऋभुप्रोक्तं अहं ब्रह्मैकत्वनिरूपणम्
(अहं ब्रह्मैकमात्रत्वात्)
परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि ।
अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥
अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥
अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा (बुद्धिप्रियः सदा)॥ १९।२१॥
अहमेवाहमेवैकः अहमेवाखिलामृतः ।
अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥
अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥
अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥
न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥
न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥
न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥
न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥
केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।
न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९॥
न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३०॥
सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।
ब्रह्मणोऽन्यत्परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१॥
ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।
आत्मनोऽन्यत्सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२॥
आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यदहं न च ।
ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३॥
न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदं (मुक्तिदम्) ।
न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४॥
न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।
न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५॥
न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६॥
न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।
अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मैकत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १९। १९-३७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 19. 19-37..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan