ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणम्
(अहमेव हि केवलम्)
सर्वापरं च सदसत्कार्यकारणकर्तृकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥
अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥
असत्यसत्यमद्वन्द्वं (असत्यं सत्यमद्वैतं) द्वन्द्वं च परतः परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥
भूतं भविष्यं वर्तं च मोहामोहौ समासमौ ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥
क्षणं लवं त्रुटिर्ब्रह्मत्वम्पदं तत्पदं तथा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥
त्वम्पदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥
आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥
अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥
विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥
श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥
स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् ।
(स्पर्शो ब्रह्म पदं त्वं च त्वं च ब्रह्म त्वक्चेति ।)
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥
परं रूपं चक्षुर्भिरेव तत्रैव योज्यताम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥
ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥
चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥
ब्रह्मैव सर्वं यत्किञ्चित्तद्ब्रह्माहं न संशयः ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥
वाचा यत्प्रोच्यते नाम मनसा मनुते तु यत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥
कारणे कल्पिते यद्यत्तूष्णीं वा स्थीयते सदा ।
शरीरेण तु यद्भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहमेवकेवलत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २५। १०-२६ ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 25. 10-26 ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan