ऋभुप्रोक्तं ब्रह्मैकरूपत्वनिरूपणम्
(सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः)
अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३॥
अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.७॥
अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते ।
(अहमेकत्त्वहीनोऽहं एकत्वं च न विद्यते ।)
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.८॥
सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.९॥
द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.१७॥
अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२०॥
अहङ्कारं बहुविधं देहोऽहमिति भावनम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२३॥
ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२४॥
देहोऽहमिति तादात्म्यं देहस्य परमात्मनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२५॥
एवमेव सदापूर्णो निरीहस्तिष्ठ शान्तधीः ।
सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०.३६॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०.३९॥
अत्यन्ताभावमेवेति सर्वदानुभवं महत् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.४०॥
एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः ।
सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०.४५॥
ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.५०॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५२॥
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५४॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः ब्रह्मैकरूपत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३०। ३-५४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 30. 3-54..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan