ऋभुप्रोक्तं एकत्वनिरूपणम्
(एक एवाहमेकवान्)
एक एव महानन्द एक एवाहमक्षरः ।
एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७.२१॥
एक एव महानात्मा एक एव मनोहरः ।
एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७.२२॥
एक एव न भूरादि एक एव न बुद्धयः ।
एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७.२३॥
एक एव न कामात्मा एक एव न कोपकम् ।
एक एव न लोभात्मा एक एव न मोहकः ॥ २७.२४॥
एक एव मदो नाहं एक एव न मे रसः ।
एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७.२५॥
एक एव न सत्तात्मा एक एव जरामरः ।
एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७.२६॥
एक एव महानन्द एक एवाहमेकवान् ।
देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७.२७॥
शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः (आत्मैवाहमित्यक्रियः)।
जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७.२८॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं एकत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २७। २१-२८॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 27. 21-28..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan