ऋभुप्रोक्तं प्रपञ्चस्य नास्तित्वनिरूपणम्
(तत्सर्वं नेति)
यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित्स्मरणं जगत् ।
यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८.५५॥
यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः ।
यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८.५६॥
यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८.५७॥
यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं सम्बन्धो नेतरत्क्वचित् ॥ ८.५८॥
यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥
यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८.६०॥
यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् ।
यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥
यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि ।
यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥
यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः । ८।६३अ
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य नास्तित्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । ५५-६३(१) ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 55-63(1) ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan