ऋभुप्रोक्तं प्रपञ्चस्य शून्यत्वनिरूपणम्

ऋभुप्रोक्तं प्रपञ्चस्य शून्यत्वनिरूपणम्

(सर्वं शशविषाणवत्) (ऋभुनिदाघसंवादे) वक्ष्ये प्रपञ्चशून्यत्वं शशश‍ृङ्गेण सम्मितम् । दुर्लभं सर्वलोकेषु सावधानमनाः श‍ृणु ॥ ८.१॥ इदं प्रपञ्चं यत्किञ्चिद्यः श‍ृणोति च पश्यति । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ८.२॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कारश्च तेजश्च सर्वं शशविषाणवत् ॥ ८.३॥ नाश जन्म च सत्यं च लोकं भुवनमण्डलम् । पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ ८.४॥ कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः । गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ ८.५॥ अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् । भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ ८.६॥ स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् । दृश्यं च दर्शनं किञ्चित्सर्वं शशविषाणवत् ॥ ८.७॥ भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् । शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ ८.८॥ यमं च नियमं चैव प्राणायामादिभाषणम् । गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ ८.९॥ श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः । आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ ८.१०॥ ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् । जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ ८.११॥ चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ ८.१२॥ सर्वलोकं सर्वभूतं सर्वधर्मं सतत्वकम् । सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ ८.१३॥ सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् । सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ ८.१४॥ सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः । सर्वकालं (सर्ववाक्यं) सर्वबोध (सर्वबोध्यं) सर्वं शशविषाणवत् ॥ ८.१५॥ सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् । सर्वद्वैतमसद्भावं (सर्वद्वैतस्य सद्भावं) सर्वं शशविषाणवत् ॥ ८.१६॥ सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः । सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ ८.१७॥ यद्यत्संवेद्यते किञ्चिद्यद्यज्जगति दृश्यते । यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ ८.१८॥ यद्यद्ध्यायति चित्ते च यद्यत्सङ्कल्प्यते क्वचित् । बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ ८.१९॥ यद्यद्वाचा व्याकरोति यद्वाचा चार्थभाषणम् । यद्यत्सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत् ॥ ८.२०॥ यद्यत्सन्त्यज्यते वस्तु यच्छृणोति च पश्यति । स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ ८.२१॥ सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च । यद्यत्सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२२॥ यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः । यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२३॥ शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् । (शिवो रक्षति मां नित्यं) स्रष्टा सृजति लोकान्वै सर्वं शशविषाणवत् ॥ ८.२४॥ जीव इत्यपि यद्यस्ति भाषयत्यपि भाषणम् । संसार इति या वार्ता सर्वं शशविषाणवत् ॥ ८.२५॥ यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः । सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ ८.२६॥ शशश‍ृङ्गवदेवेदमुक्तं प्रकरणं तव । यः श‍ृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥ ८.२७॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य शून्यत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ८ । १-२७॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 8 . 1-27.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Prapanchasya Shunyatvanirupanam
% File name             : RRibhuproktaMprapanchasyashUnyatvanirUpaNam.itx
% itxtitle              : prapanchasya shUnyatvanirUpaNam (RibhuproktaM shivarahasyAntargatam sarvaM shashaviShANavat)
% engtitle              : RRibhuproktaM prapanchasya shUnyatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 8 | 1-27||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org