ऋभुप्रोक्तं सदाशिवत्वनिरूपणम्
(इदमेव परं ब्रह्म ज्ञानामृतमनोमयम्)
न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२॥
न क्वचिन्नात एवाहं नाक्षरं न परात्परम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३॥
न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४॥
न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५॥
न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
न जपं न परिच्छिन्नं न व्यापकमसत्फलम् ॥ २६.६॥
न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् ।
नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७॥
अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८॥
न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९॥
न शरीरं न लिङ्गं वा न कारणमकारणम् ।
न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१०॥
न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् (विवेकवान्) ॥ २६.११॥
न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२॥
न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३॥
न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् ।
न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४॥
न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् ।
न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५॥
न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् ।
नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ २६.१६॥
न पुण्यं न च वा पापं न क्रिया दोषकारणम् ।
न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ २६.१७॥
न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् ।
न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥
न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा ।
अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ २६.१९॥
न सात्त्विकं राजसं च न तामसगुणाधिकम् ।
न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २६.२०॥
न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।
न स्त्रीरूपं न पुम्भावः न षण्डो न स्थिरः पदम् ॥ २६.२१॥
न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि ।
न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २६.२२॥
न पानं न कृशं नेदं न मोदं न मदामदम् ।
न भावनमभावो वा न कुलं नामरूपकम् ॥ २६.२३॥
नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि ।
निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४॥
न शान्तिकलना नागं न शान्तिर्न शमो दमः ।
न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २६.२५॥
न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका ।
यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६.२६॥
न यौवनं न बाल्यं वा न जरामरणादिकम् ।
न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७॥
नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः ।
न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८॥
न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः ।
इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६.२९॥
न पुनर्भावि पश्चाद्वा न पुनर्भवसम्भवः ।
न कालकलना नाहं न सम्भाषणकारणम् ॥ २६.३०॥
न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् ।
न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ २६.३१॥
नान्नकोशं न च प्राणमनोमयमकोशकम् ।
न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६.३२॥
न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः ।
न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६.३३॥
न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् ।
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ २६.३४॥
न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।
न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६.३५॥
नान्तःकरणसंसारो न मनो जगतां भ्रमः ।
न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ २६.३६॥
न जीवरूपसंसारो वासनारूपसंसृतिः ।
न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः (संसृतिः) ॥ २६.३७॥
न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।
नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ २६.३८॥
न भेदाभेदकलनं न दोषादोषकल्पनम् ।
न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६.३९॥
न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।
न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६.४०॥
न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।
न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ २६.४१॥
अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् ।
देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ २६.४२॥
अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।
न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ २६.४३॥
सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् ।
सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४॥
न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् ।
न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ २६.४५॥
न जगन्न मनो नान्तो न कार्यकलनं क्वचित् ।
न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६॥
न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् ।
न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७॥
ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् ।
(न ब्रह्मचित्त आत्मन्यो न परः स्वप्नलक्षणम् ।)
न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ २६.४८॥
आत्मज्ञानविहीनो यो महापातकिरेव सः ।
एतावज्ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९॥
अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः ।
ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५०॥
सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः ।
स एव ज्ञानवाल्ँलोके स एव परमेश्वरः ॥ २६.५१॥
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ।
एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६.५२॥
एकत्वं न बहुत्वमप्यणुमहत्कार्यं न वै कारणं
विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सदाशिवत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २६। २-५३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 26. 2-53..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan