ऋभुप्रोक्तं सर्वब्रह्मत्वनिरूपणम्
(सर्वं ब्रह्मेति निश्चिनु)
इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७॥
सदा ब्रह्मविचारं च सर्वं ब्रह्मेति निश्चिनु ।
तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८॥
सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९॥
भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१०॥
कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११॥
अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२॥
सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३॥
देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४॥
ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५॥
तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६॥
चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७॥
मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
अहङ्कारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८॥
पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९॥
दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२०॥
वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१॥
मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२॥
रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३॥
माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४॥
सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५॥
विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६॥
वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु । ४०।२७(१)
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वब्रह्मत्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४०। ७-२७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 40. 7-27..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan