ऋभुप्रोक्तं सर्वमसदेवनिरूपणम्
(तत्सर्वमसदेव हि / असदेव हि केवलम्)
(ऋभुनिदाघसंवादे)
अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।
शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाषते सदा ।
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥
यद्यत्किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।
आत्मनोऽन्यत्परं यद्यदसत्सर्वं न संशयः ॥ १६.३॥
चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।
आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६.४॥
अहन्तायाः परं रूपं इदन्त्वं सत्यमित्यपि ।
आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६.५॥
नानात्वमेव रूपत्वं व्यवहारः क्वचित्क्वचित् ।
आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥
तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।
इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥
द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।
अहं भेदमिदं भेदमसदेव हि केवलम् ॥ १६.८॥
(अहं भेदमिदं भेदं तत्सर्वमसदेव हि) ॥ १६.८॥
स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।
कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
लिङ्गभेदमिदम्भेदमसदेव हि केवलम् ॥ १६.९॥
आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।
अत्यन्ताभावसद्भेदमसदेव हि केवलम् ॥ १६.१०॥
अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।
भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥
पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।
पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥
(पुण्यभेदं पापभेदं असद्भेदमनण्वपि) ॥ १६.१२॥
सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।
ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥
ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् ।
इदं भेदमहं भेदं असदेव हि केवलम् ॥ १६.१४॥
वेदभेदं देवभेदं लोकानां भेदमीदृशम् ।
पञ्चाक्षरमसन्नित्यमसदेव हि केवलम् ॥ १६.१५॥
ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा ।
असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६.१६॥
असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः ।
असत्यं पञ्चकोशाख्यमसदेव हि केवलम् ॥ १६.१७॥
असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् ।
असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा (तथा)॥ १६।१८॥
असत्यं द्वादशमासाः असत्यं वत्सरस्तथा ।
असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६.१९॥
असत्यमेव षट्शास्त्रं असदेव हि केवलम् ।
असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६.२०॥
अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् ।
असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६.२१॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १६ । १-२१॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 16 . 1-21..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan