ऋभुप्रोक्तं सर्वमिथ्यात्वनिरूपणम्
(सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः)
वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च ।
यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१॥
चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२॥
देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३॥
दृश्यं च दर्शनं दृष्टा (द्रष्टा) कर्ता कारयिता क्रिया ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४॥
एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५॥
शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६॥
जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७॥
अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८॥
परापरविकल्पश्च पुण्यपापविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९॥
कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१०॥
सिद्धं साध्यं साधनं च नाशनं (शासनं) ब्रह्मभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११॥
आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२॥
अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३॥
शमो दमो मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१४॥
बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१५॥
सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१६॥
ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१७॥
विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१८॥
रुद्रलोकः सदा मिथ्या अहङ्कारस्वरूपतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१९॥
चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२०॥
दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२१॥
सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२२॥
वरुणस्य सदा लोको जिह्वारससमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२३॥
त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२४॥
अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२५॥
अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२६॥
इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२७॥
उपेन्द्रस्य महर्लोको गमनेन पदं युतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२८॥
मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥
प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥
सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् ।
तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥
अनेकशब्दश्रवणमनेकार्थविचारणम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥
सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
सर्वमुक्तं भगवता निदिध्यासस्तु (निजाध्यासस्तु) सर्वदा ॥ ३२.४९॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः सर्वमिथ्यात्वनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३२। २-३१,३६,४९॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 32. 2-31,36,49..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan