ऋभुप्रोक्तं सर्वञ्चिन्मात्रेवनिरूपणम्
(सर्वं चिन्मात्रेव हि)
चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः ।
चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६.२४॥
चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् ।
चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.२५॥
चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च ।
चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६.२६॥
चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६.२७॥
चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६.२८॥
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६.२९॥
चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् ।
चिन्मात्रमेव सङ्कल्पं चिन्मात्रं भुवनत्रयम् ॥ १६.३०॥
चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः ।
चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६.३१॥
चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् ।
चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६.३२॥
चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् ।
चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६.३३॥
चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि ।
चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६.३४॥
चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् ।
चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६.३५॥
चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६.३६॥
चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् ।
चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६.३७॥
चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन ।
चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६.३८॥
चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् ।
चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६.३९॥
चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् ।
चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६.४०॥
चिदेव जगदाकारं चिदेव परमं पदम् ।
चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६.४१॥
चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः ।
चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६.४२॥
चिदेव हि जडाकारं चिदेव हि निरन्तरम् ।
चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६.४३॥
चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४॥
चिदेव परमाकारं चिदेव हि निरामयम् ।
चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५॥
चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।
चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६॥
चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।
चिदाकारमहङ्कारं चिदाकारं परात्परम् ॥ १६.४७॥
चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।
चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८॥
चिदाकारं महानन्दं चिदाकारं सुखात्सुखम् ।
चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९॥
चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।
चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५०॥
चिदाकारं परातीतं चिदाकारं चिदेव हि ।
चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१॥
चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।
चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२॥
चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।
चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३॥
चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।
चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४॥
चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।
चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५॥
चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।
चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६॥
चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः ।
चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६.५७॥
चिदेव गगनाकारं चिदेव गणनायकम् ।
चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८॥
चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।
चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९॥
चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।
चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६०॥
चिदेव परमं देवं चिदेव हृदयालयम् ।
चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१॥
चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२॥
चिदेव परमं ध्यानं चिदेव परमर्हणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १६ । २४-६३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 16 . 24-63..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan