ऋभुप्रोक्तं स्वानुभवेन सर्वोपनिषदां सारम्
(अहं ब्रह्मास्मि केवलम्)
अहमेव परं ब्रह्म अहमेव परं सुखम् ।
अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥
अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।
सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥
अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः ।
सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥
नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥
नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९॥
अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४०॥
स्वस्वसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१॥
सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२॥
सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३॥
सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४॥
अहमेव सुखं नान्यदहमेव चिदव्ययः ।
अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५॥
केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६॥
केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७॥
सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८॥
अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९॥
अरसस्युतरूपोऽस्मि अनुतापविवर्जितः ।
अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५०॥
सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१॥
अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२॥
ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् ।
शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३॥
तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।
किञ्चिन्नास्ति परो नास्ति किञ्चिदस्मि परोऽस्मि च ॥ ४.५४॥
न शरीरप्रकाशोऽस्मि जगद्भासकरो न च ।
चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४.५५॥
मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात्परः ॥ ४.५६॥
न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७॥
यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४.५८॥
न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा
भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता
बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४.५९॥
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानमेवमध्यात्मनिर्णयं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४ । ३५-५९॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 4 . 35-59..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan