ऋभुप्रोक्तं स्वात्मनिरूपणम्
(सोऽस्मह्यम्)
(ऋभुनिदाघसंवादे)
शृणु भूयो महाश्चर्यं नित्यानुभवसम्पदम् ॥ ७.२५(२)॥
दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् ।
अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ ७.२६॥
सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् ।
अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ ७.२७॥
अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।
विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ ७.२८॥
शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९॥
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।
भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३०॥
शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहं (महोऽस्म्यहं) ।
तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१॥
सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।
एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्या नास्ति नास्म्यहम् ॥ ७.३२॥
सदसद्भेदहीनोऽस्मि सङ्कल्परहितोऽस्म्यहम् ।
नानात्मभेदहीनोऽस्मि यत्किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३॥
नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४॥
बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५॥
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ।
आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६॥
ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ।
पूर्णात्पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७॥
सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् ।
लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८॥
मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।
अगत्सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९॥
प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ७.४०॥
सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ।
मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१॥
नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।
यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२॥
हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् ।
षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३॥
अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ।
देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ७.४४॥
नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ७.४५॥
अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् ।
प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ७.४६॥
सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ७.४७॥
कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ७.४८॥
सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् ।
गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ७.४९॥
सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् ।
एवं स्वानुभवं प्रोक्तं एतत्प्रकरणं महत् ॥ ७.५०॥
- -
(फलं)
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
- -
॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं स्वात्मनिरूपणं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ७ । २५(२)-५१(१) ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 7 . 25(2)-51(1) ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan