ऋभुसंकथितं ज्ञानं शिववाक्यजम्
(त्वं ब्रह्मासि न संशयः)
(निदाघऋभुसंवादे)
निदाघः -
एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।
तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ १॥
- -
ऋभुः -
त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।
त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ २॥
त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः ।
त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ३॥
कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा ।
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ४॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५॥
समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिपादितोऽसि ।
सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ६॥ (परापरोऽसि)
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
सर्वत्र सङ्कल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ७॥
सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ८॥
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ९॥
आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।
एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ १०॥
चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ११॥
तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ १२॥
अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ १३॥
सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ १४॥
सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ १५॥
ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ १६॥
योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ १७॥
लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ १८॥
सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ १९॥
ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः ।
शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ २०॥
प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ २१॥
स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ २२॥
स्वात्मराज्ये (स्वयमत्मतमो) त्वमेवासि स्वयमात्मानमो ह्यसि ।
स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ २३॥
स्वस्मिन्सुखे स्वयञ्चासि स्वस्मात्किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ २४॥
स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ २५॥
स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ २६॥
स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
स्वस्मिन्स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ २७॥
॥ इति शिवरहस्यान्तर्गते ऋभुसङ्कथितं ज्ञानं शिववाक्यजं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५ । १-२७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 5 . 1-27..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan