ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनम्
(केवलं ब्रह्ममात्रत्वात्)
ऋभुः -
कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् ।
तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५.२९॥
- -
अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५.३०॥
न प्रपञ्चो न चित्तादि नाहङ्कारो न जीवकः ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३१॥
मायकार्यादिकं नास्ति मायाकार्यभयन्नहि ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३२॥
कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३३॥
एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकञ्च न ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३४॥
श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३५॥
समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३६॥
अज्ञानं चापि नास्त्येव अविवेककथा न च ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३७॥
अनुबन्धचतुष्कञ्च सम्बन्धत्रयमेव न ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३८॥
भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.३९॥
गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४०॥
न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४१॥
नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५.४२॥
न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः ।
नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥
न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि ।
क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥
द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् ।
न वृद्धिर्नोदयो मृत्युर्न गमागमविभ्रमः ॥ ५.४५॥
इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः ।
सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥
सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि ।
चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥
अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् ।
केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वथा ॥ ५.४९॥
वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् ।
बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥
योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत्कृतम् ।
जाग्रत्स्वप्नसुषुप्तिञ्च स्वप्नं वा न तुरीयकम् ॥ ५.५१॥
सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।
स्नानाच्छुद्धिर्न हि क्वापि ध्यानाच्शुद्धिर्न हि क्वचित् ॥ ५.५२॥
गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा ।
एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥
भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
केवलं ब्रह्ममात्रत्वान्न किञ्चिदवशिष्यते ॥ ५.५४॥
इदं शृणोति यः सम्यक्स ब्रह्म भवति स्वयम् ॥ ५.५५॥
- -
ईश्वरः -
वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥
हरं विज्ञातारं निखिलतनुकार्येषु करणं
न जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।
उमानाथाकारं हृदयदहरान्तर्गतसरा-
पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५.५७॥
॥ इति शिवरहस्यान्तर्गते ऋभुसङ्कथितं शिवेन कुमारोपदेशवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५ । २९-५७॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 5 . 29-57..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan