ऋग्वेदकृता शिवस्तुतिः

ऋग्वेदकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) ऋग्वेदः उवाच । यः सोमो जनिता देवो मतीनां च दिवस्तथा । पृथिव्याजनिता सोमः सोमोऽग्नेर्जनिता तथा ॥ १२॥ सूर्यस्य जनिता सोम इन्द्रस्य जनिता शिवः । विष्णोर्वै जनिता सोमः सर्वेषां जनिता हरः ॥ १३॥ आषाढः श्रीमहादेवः पितासौ मरुतामपि । विश्वस्य भेषजो रुद्रः सुधन्वा सखिषु परः ॥ १४॥ नमोभिस्तं प्रपद्यामि रुद्रमध्वरनायकम् । भूर्णिरेव विरूपाक्षः शिवो मीढुष्टमो हरः ॥ १५॥ शम्भो त्वं प्रतिमत्वं मे मातासि च पितासि मे । तेन रायसहस्राढ्यं भवेन्मम सदा मुदा ॥ १६॥ तव सोमव्रतं देव तन्वा च मनसा सह । कान्ता ते शिवलिङ्गार्चा पश्येम शरदः शतम् ॥ १७॥ तवैव शिव नैवेद्यं तदश्याम सदा मुदा । भस्मरुद्राक्षसहिता जीवाम शरदः शतम् ॥ १८॥ सदा शिवकथां श्रुत्वा मोदाम शरदः शतम् । शिवस्य लिङ्गं दृष्टैव नन्दाम शरदः शतम् ॥ १९॥ शिवभक्ताः सदा शान्ता भवाम शरदः शतम् । शिवस्यैव सदा वाचा चारुनाम मनामहे ॥ २०॥ पितरं च महादेवं दृशेयं मातरं शिवम् । चारुचित्रं लिङ्गरूपं भजध्वं परमेश्वरम् ॥ २१॥ अकामेन भजन्तीशं धिया पावनया सुराः । पुरीषजिह्वास्ते सर्वे भवन्ति निरपत्रपाः ॥ २२॥ ईशादस्य भुवनस्य जन्म सदा पश्यन्ति सूरयः । हे देवाः प्रियमेधासः समर्चन्तु महेश्वरम् ॥ २३॥ त्रिपुरारिं महादेवं त्रिसत्यं प्रवदाम्यहम् । अयं गाथपतिः स्मावो जयं मेधपतिः शिवः ॥ २४॥ सर्वेशं तं महादेवं उतामृतपतिं शिवम् । भुवि मोक्षस्य दातारं भजेऽहं सत्पतिं शिवम् ॥ २५॥ ॥ इति शिवरहस्यान्तर्गते ऋग्वेदकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ३ ऋग्वेदयजुर्वेदकृतस्तुतिः । १२-२५ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 3 RRigvedayajurvedakRRitastutiH . 12-25 .. Notes: Ṛgveda ऋग्वेद; at the site of DakṣaYajña दक्षयज्ञ, a eulogy in favor of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rigvedakrita Shiva Stuti
% File name             : RRigvedakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (RigvedakRitA shivarahasyAntargatA)
% engtitle              : RRigvedakRRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 3 RigvedayajurvedakRitastutiH | 12-25 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org