अष्टभैरव ध्यानस्तोत्रम्

अष्टभैरव ध्यानस्तोत्रम्

भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः । मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥ ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः । नमस्कार मन्त्रः - ॐ श्रीभैरव्यै, ॐ मं महाभैरव्यै, ॐ सिं सिंहभैरव्यै, ॐ धूं धूम्रभैरव्यै, ॐ भीं भीमभैरव्यै, ॐ उं उन्मत्तभैरव्यै, ॐ वं वशीकरणभैरव्यै, ॐ मों मोहनभैरव्यै । ॥ अष्टभैरव ध्यानम् ॥ असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥ १) असिताङ्गभैरव ध्यानम् । रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १॥ २) रूरुभैरव ध्यानम् । निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् । भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥ २॥ ३) चण्डभैरव ध्यानम् । बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् । शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३॥ ४) क्रोधभैरव ध्यानम् । उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे । नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥ ४॥ ५) उन्मत्तभैरव ध्यानम् । एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् । चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥ ५॥ ६) कपालभैरव ध्यानम् । वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च । दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६॥ ७) भीषणभैरव ध्यानम् । त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् । कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥ सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् । रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् । नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥ नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् । नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥ नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् । किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ ७॥ ८) संहारभैरव ध्यानम् । एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा । डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥ धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा । वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥ नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् । कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥ श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् । सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥ ८॥ इति श्रीभैरव स्तुति निरुद्र कुरुते । इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ।
% Text title            : Ashta Bhairava Dhyana Stotram
% File name             : aShTabhairavadhyAnastotram.itx
% itxtitle              : aShTabhairavadhyAnastotram
% engtitle              : aShTabhairavadhyAnastotram
% Category              : shiva, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : July 19, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org