अष्टमूर्तिस्तुतिः
क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १॥
जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ २॥
वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ३॥
वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ४॥
व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ५॥
चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ६॥
सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ७॥
यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ८॥
अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ ।
किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ ९॥
इत्यष्टमूर्ति स्तुतिः ॥
Encoded by Muthuraman Krishnamurthy
Proofread by Muthuraman Krishnamurthy, Aruna Narayan