ऐश्वर्यदायकं बटुकभैरवकवचम्
अस्य श्रीबटुकभैरवकवचस्य
शिवब्रह्मऋषिरनुष्टुप् छन्दः
श्रीबटुकभैरवो देवता
ममैश्वर्यस्याभिष्टद्धयर्थं
श्रीबटुकभैरवः प्रसादसिद्धये जपे विनियोगः ।
ध्यानं -
दिग्वासरां कमलपत्रविशालनेत्रं भस्माङ्गरागमभयं प्रभुमादिदेवम् ।
ध्यायामि तं बटुकनाथमहर्निशं मे सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ॥
कवचपाठः -
शिरो मे भैरवः पातु भालं पुरनिषूदनः ।
दृशौ पातु त्रिनेत्री मे श्रवणं नीलकण्ठकः ॥ १॥
दिग्वासा मे पातु कण्ठं नासिकाभगकन्यभाक् ।
ओष्ठौ त्रिपुरधाती मे जिह्वां पातु कपालधृक् ॥ २॥
दन्तान् पातु क्रतुध्वंसी चिबुकं भूतवासकः ।
कपाली पातु मे ग्रीवां स्कन्धौ पातु गजान्तकः ॥ ३॥
भुजौ मे पातु कौमारो हृदयं क्षेत्रपालकः ।
अभीरुर्मे स्तनौ पातु वक्षः पातु महेश्वरः ॥ ४॥
कुक्षौ मे पातु संहर्त्ता नाभिं मे षण्मुखप्रियः ।
भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ॥ ५॥
ऊरू पातु वृषारूढो जानुनी भूतभावनः ।
शमशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ॥ ६॥
॥ इति ऐश्वर्यदायकं बटुकभैरवकवचं सम्पूर्णम् ॥
Notes:
Proofread by Ruma Dewan