अन्धककृतं ३ शिवस्तोत्रम्

अन्धककृतं ३ शिवस्तोत्रम्

अन्धक उवाच । नमोऽस्तु ते भैरव भीममूर्ते त्रिलोकगोप्त्रे शितशूलधारिणे । विंशार्द्धबाहो भुजगेशहार त्रिनेत्र मां पाहि विपन्नबुद्धिम् ॥ ५२॥ जयस्व सर्वेश्वर विश्वमूर्त्ते सुरासुरैर्वन्दितपादपीठ । त्रैलोक्यमातुर्गुरवे वृषाङ्क भीतः शरण्यं शरणागतोऽस्मि ॥ ५३॥ त्वां नाथ देवाः शिवमीरयन्ति सिद्धा हरं स्थाणु महर्षयश्च । भीमं च यक्षा मनुजा महेश्वरं भूताश्च भूताधिपमामनन्ति ॥ ५४॥ निशाचरा उग्रमुपार्चयन्ति भवेति पुण्याः पितरो नमन्ति । दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ ॥ ५५॥ भवांस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र । त्रय्यारुणिस्त्रिश्रुतिरव्ययात्मन् पुनीहि मां त्वां शरणं गतोऽस्मि ॥ ५६॥ त्रिणाचिकेतस्त्रिपदप्रतिष्ठः षडङ्गवित्त्वं विषयेष्वलुब्धः । त्रैलोक्यनाथोऽसि पुनीहि शम्भो दासोऽस्मि भीतः शरणागतस्ते ॥ ५७॥ कृतं महच्छङ्कर तेऽपराधं मया महाभूतपते गिरीश । कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि ॥ ५८॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः । त्राहि मां देव ईशान सर्वपापहरो भव ॥ ५९॥ मा मे क्रुध्यस्व देवेश त्वया चैतादृशोऽस्म्यहम् । सृष्टः पापसमाचारो मे प्रसन्नो भवेश्वर ॥ ६०॥ त्वं कर्त्ता चैव धाता च त्वं जयस्त्वं महाजयः । त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमीशानो ध्रुवोऽव्ययः ॥ ६१॥ त्वं ब्रह्म सृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः । त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं च सुरोत्तमः ॥ ६२॥ सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तस्त्वमीश्वरः । त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ६३॥ त्वमादिरन्तो मध्यश्च त्वमनादिः सहस्रपात् । विजयस्त्वं सहस्राक्षो विरूपाक्षो महाभुजः ॥ ६४॥ अनन्तः सर्वगो व्यापी हंसः प्राणाधिपोऽच्युतः । गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिः शिवः ॥ ६५॥ त्रैविद्यस्त्वं जितक्रोधो जितारिर्विजितेन्द्रियः । जयश्च शूलपाणिस्त्वं त्राहि मां शरणागतम् ॥ ६६॥ इति वामनपुराणे सप्ततिमाध्यायान्तर्गतं अन्धककृतं शिवस्तोत्रं समाप्तम् । वामनपुराण । अध्याय ७०/५१-६२॥ vAmanapurANa . adhyAya 70/51-62.. Proofread by PSA Easwaran
% Text title            : Andhakakritam 3 Shiva Stotram
% File name             : andhakakRRitaM3shivastotram.itx
% itxtitle              : shivastotram (andhakakRitaM 3 vAmanapurANAntargatam namo.astu te bhairava bhImamUrte trilokagoptre shitashUladhAriNe)
% engtitle              : andhakakRRitaM 3 shivastotram
% Category              : shiva, vAmanapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : vAmanapurANa | adhyAya 70/51-62||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, English, Marathi)
% Latest update         : September 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org