अन्धककृतं ४ शिवस्तोत्रम्
अन्धक उवाच ।
नमोऽस्तु ते भैरव भीममूर्ते त्रिलोकगोप्त्रे शितशूलधारिणे ।
विंशार्द्धबाहो भुजगेशहार त्रिनेत्र मां पाहि विपन्नबुद्धिम् ॥ ५२॥
जयस्व सर्वेश्वर विश्वमूर्त्ते सुरासुरैर्वन्दितपादपीठ ।
त्रैलोक्यमातुर्गुरवे वृषाङ्क भीतः शरण्यं शरणागतोऽस्मि ॥ ५३॥
त्वां नाथ देवाः शिवमीरयन्ति सिद्धा हरं स्थाणु महर्षयश्च ।
भीमं च यक्षा मनुजा महेश्वरं भूताश्च भूताधिपमामनन्ति ॥ ५४॥
निशाचरा उग्रमुपार्चयन्ति भवेति पुण्याः पितरो नमन्ति ।
दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ ॥ ५५॥
भवांस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र ।
त्रय्यारुणिस्त्रिश्रुतिरव्ययात्मन् पुनीहि मां त्वां शरणं गतोऽस्मि ॥ ५६॥
त्रिणाचिकेतस्त्रिपदप्रतिष्ठः षडङ्गवित्त्वं विषयेष्वलुब्धः ।
त्रैलोक्यनाथोऽसि पुनीहि शम्भो दासोऽस्मि भीतः शरणागतस्ते ॥ ५७॥
कृतं महच्छङ्कर तेऽपराधं मया महाभूतपते गिरीश ।
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि ॥ ५८॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां देव ईशान सर्वपापहरो भव ॥ ५९॥
मा मे क्रुध्यस्व देवेश त्वया चैतादृशोऽस्म्यहम् ।
सृष्टः पापसमाचारो मे प्रसन्नो भवेश्वर ॥ ६०॥
त्वं कर्त्ता चैव धाता च त्वं जयस्त्वं महाजयः ।
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमीशानो ध्रुवोऽव्ययः ॥ ६०॥
त्वं ब्रह्म सृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं च सुरोत्तमः ॥ ६२॥
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तस्त्वमीश्वरः ।
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ६३॥
त्वमादिरन्तो मध्यश्च त्वमनादिः सहस्रपात् ।
विजयस्त्वं सहस्राक्षो विरूपाक्षो महाभुजः ॥ ६४॥
अनन्तः सर्वगो व्यापी हंसः प्राणाधिपोऽच्युतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिः शिवः ॥ ६५॥
त्रैविद्यस्त्वं जितक्रोधो जितारिर्विजितेन्द्रियः ।
जयश्च शूलपाणिस्त्वं त्राहि मां शरणागतम् ॥ ६६॥
इति वामनपुराणे सप्ततितमाध्यायान्तर्गतं
अन्धककृतं शिवस्तोत्रं समाप्तम् ।
वामनपुराण । अध्याय ७०/५२-६६॥
vAmanapurANa . adhyAya 70/52-66..
Proofread by PSA Easwaran