अन्धककृतं ५ शिवस्तोत्रम्

अन्धककृतं ५ शिवस्तोत्रम्

अन्धक उवाच । कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता । संसारहेतुरपि यः पुनरन्तकाले तं शङ्करं शरणदं शरणं व्रजामि ॥ ११॥ यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः । ध्यायन्ति येऽखिलधियोऽमितदिव्यभूतिं तं शङ्करं शरणदं शरणं व्रजामि ॥ १२॥ यश्चन्द्रखण्डममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति । यस्यार्धदेहमभजद्गिरिराजपुत्री तं शङ्करं शरणदं शरणं व्रजामि ॥ १३॥ यः सिद्धचारणनिषेवितपादपद्मो गङ्गां महोर्मिविषमां गगनात्पतन्तीम् । मूर्ध्ना दधे स्रजमिव त्रिजगत्पुनन्तीं तं शङ्करं शरणदं शरणं व्रजामि ॥ १४॥ कैलासशैलशिखरं प्रविकम्प्यमानं कैलासश‍ृङ्गसदृशेन दशाननेन । यः पादपद्मपरिपीडनसेव्यमान- स्तं शङ्करं शरणदं शरणं व्रजामि ॥ १५॥ दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपङ्क्तिमशातयद्यः । व्यष्टम्भयत्कुलिशहस्तमथेन्द्रमीशं तं शङ्करं शरणदं शरणं व्रजामि ॥ १६॥ येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः । संयोजिता मुनिवराः फलमूलभक्षा- स्तं शङ्करं शरणदं शरणं व्रजामि ॥ १७॥ एवं कृतेऽपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः । यं संश्रिताः सुखभुजः पुरुषा भवन्ति तं शङ्करं शरणदं शरणं व्रजा मि ॥ १८॥ ब्रह्मेन्द्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः । सूतं च मृत्युवदनात्पुनरुज्जहार तं शङ्करं शरणदं शरणं व्रजामि ॥ १९॥ आराधितस्तु तपसा हिमवन्निकुञ्जे धूम्रव्रतेन तपसा च परैरगम्यः । सञ्जीवनीं समददाद्भृगवे महात्मा तं शङ्करं शरणदं शरणं व्रजामि ॥ १.३८.२०॥ क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमण्डितानि । सब्रह्मकानि ससृजे सुकृताभिधानि तं शङ्करं शरणदं शरणं व्रजामि ॥ २१॥ यः सव्यपाणिकमलाग्रनखेन देव- स्तत्पञ्चमं प्रसभमेव करालरन्ध्रम् । ब्राह्म्यं शिरस्तरणिपद्मनिभं चकर्त तं शङ्करं शरणदं शरणं व्रजामि ॥ २२॥ ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानन्ति नास्य जगतः सचराचरस्य । ऐश्वर्यमानविगमेऽनुशयेन पश्चा- त्ते यातनामनुभवन्ति यथाहमेव ॥ २३॥ यः पठेत्स्तुतिमिमां शुचिकर्मा यः श‍ृणोति सततं शिवभक्तः । विप्रसंसदि सदा शुभकर्मा स प्रयाति शिवलोकमखण्डम् ॥ २४॥ इति श्रीस्कन्दपुराणे आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये अष्टात्रिंशाध्यायान्तर्गतं अन्धककृतं शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । आवन्त्यखण्ड । आवन्त्यखण्ड । अध्याय ३८/११-२४॥ skandapurANa . AvantyakhaNDa . AvantyakhaNDa . adhyAya 38/11-24.. Proofread by PSA Easwaran
% Text title            : Andhakakritam 5 Shiva Stotram
% File name             : andhakakRRitaM5shivastotram.itx
% itxtitle              : shivastotram (andhakakRitaM 5 skandapurANAntargatam kRitsnasya yo.asya jagataH sacharAcharasya)
% engtitle              : andhakakRRitaM 5 shivastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | AvantyakhaNDa | AvantyakhaNDa | adhyAya 38/11-24||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org