अथर्ववेदकृता शिवस्तुतिः

अथर्ववेदकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) अथर्ववेद उवाच । यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ॥ ३३॥ यो वै रुद्रः स भगवान् या चोमा तस्मै वै नमो नमः ॥ ३४॥ यो वै रुद्रः स भगवान् यश्च विनायकस्तस्मै वै नमो नमः ॥ ३५॥ यो वै रुद्रः स भगवान् यश्च स्कन्दस्तस्मै वै नमो नमः ॥ ३६॥ यो वै रुद्रः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ॥ ३७॥ यो वै रुद्रः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ॥ ३८॥ यो वै रुद्रः स भगवान् यश्च वायुस्तस्मै वै नमो नमः ॥ ३९॥ यो वै रुद्रः स भगवान् यश्च वरुणस्तस्मै वै नमो नमः ॥ ४०॥ यो वै रुद्रः स भगवान् यश्च यमस्तस्मै वै नमो नमः ॥ ४१॥ यो वै रुद्रः स भगवान् यश्चनिरृतिस्तस्मै वै नमो नमः ॥ ४२॥ यो वै रुद्रः स भगवान् यश्च कुबेरस्तस्मै वै नमो नमः ॥ ४३॥ यो वै रुद्रः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ॥ ४४॥ यो वै रुद्रः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ॥ ४५॥ यो वै रुद्रः स भगवान् यानि च नक्षत्राणि वै नमो नमः ॥ ४६॥ यो वै रुद्रः स भगवान् ये चाष्टौ ग्रहास्तस्मै वै नमो नमः ॥ ४७॥ यो वै रुद्रः स भगवान् ये च ऋषयस्तस्मै वै नमो नमः ॥ ४८॥ यो वै रुद्रः स भगवान् ये चाष्टौ वसवस्तस्मै वै नमो नमः ॥ ४९॥ यो वै रुद्रः स भगवान् येद्वादशादित्यास्तस्मै वै नमो नमः ॥ ५०॥ यो वै रुद्रः स भगवान् य एकादशरुद्रास्तस्मै वै नमो नमः ॥ ५१॥ यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमो नमः ॥ ५२॥ यो वै रुद्रः स भगवान् यच्च तेजस्तस्मै वै नमो नमः ॥ ५३॥ यो वै रुद्रः स भगवान् यच्चाकाशं तस्मै वै नमो नमः ॥ ५४॥ यो वै रुद्रः स भगवान् याच भूस्तस्मै वै नमो नमः ॥ ५५॥ यो वै रुद्रः स भगवान् या च भुवस्तस्मै वै नमो नमः ॥ ५६॥ यो वै रुद्रः स भगवान् यश्च सुवस्तस्मै वै नमो नमः ॥ ५७॥ यो वै रुद्रः स भगवान् यश्च महस्तस्मै वै नमो नमः ॥ ५८॥ यो वै रुद्रः स भगवान् यश्च जनस्तस्मै वै नमो नमः ॥ ५९॥ यो वै रुद्रः स भगवान् यच्च तपस्तस्मै वै नमो नमः ॥ ६०॥ यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमो नमः ॥ ६१॥ यो वै रुद्रः स भगवान् ये च प्राणास्तस्मै वै नमो नमः ॥ ६२॥ यो वै रुद्रः स भगवान् यच्च मनस्तस्मै वै नमो नमः ॥ ६३॥ यो वै रुद्रः स भगवान् यश्च सर्वेन्द्रियाणि वै नमो नमः ॥ ६४॥ यो वै रुद्रः स भगवान् यश्च कालस्तस्मै वै नमो नमः ॥ ६५॥ यो वै रुद्रः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ॥ ६६॥ यो वै रुद्रः स भगवान् यच्च भूतं भविष्यत् वै नमो नमः ॥ ६७॥ ओमादौ च तथान्ते च भूर्भुवः स्वस्त्रिरीरितः ॥ ६८॥ बह्मैकं त्वं त्रिधोर्ध्वं त्वं गतिः पुष्टिर्महेश्वरः । विश्वविश्वं च विश्वातीतस्त्वं हुतं प्रहुतमेव च ॥ ६९॥ कृतं चाकृतमेतच्च परमं च परायणम् ॥ ७०॥ नारायणादिजनको ह्यर्यम्णो वरुणस्य च । जनिता त्वं तथा वायोर्द्यावाभूम्योर्महेश्वर ॥ ७१॥ सर्वेशः सर्वसाक्षी च सर्व एव त्वमेव हि । अग्राह्यः सर्वभूतेषु सर्वेन्द्रियगुणातिगः ॥ ७२॥ अलिङ्गोऽस्य शरीरस्त्वं व्यापकश्च सनातनः । वामनं त्वां महादेवं सर्वदेवा उपासते ॥ ७३॥ त्वत्तो जातं जगच्छम्भो स्थितं त्वय्येव लीयते । त्वत्तो नास्ति पृथक् किञ्चित् न भिन्नं परमार्थतः ॥ ७४॥ नेह नानास्ति किञ्चिद्वै त्वदधिष्ठितमेव हि । त्वामविज्ञाय दुर्मेधाः कृतकृत्योऽभिमन्यते ॥ ७५॥ सर्वभूताधिकश्चात्मा कोशातीतो महेश्वरः । महाग्रासः स एवेशो ब्रह्क्षत्रं तदोदनम् ॥ ७६॥ कालकालस्य देवस्य मृत्योरेवोपसेचनम् । ब्रह्मपुच्छं प्रतिष्ठा च शान्तिरक्षरमेव च ॥ ७७॥ हृदयं पुरुषो रुद्रस्तिस्रो मात्राः परस्तु सः । ओङ्कारप्रणवो व्यापी अनन्तो व्यापको विभुः ॥ ७८॥ तारं सूक्ष्मं वैद्युतं च शुक्लं सर्वशरीरगः । ईशानो भगवान् रुद्रो महादेवः स एव हि ॥ ७९॥ परं ब्रह्म परं धाम परः पारः परायणः । विशोको निर्गुणश्चायं महात्मा विश्वतोमुखः ॥ ८०॥ सर्वान्तरः सर्वसाक्षी एष रुद्रो महेश्वरः । स एव कर्ता जगतां नान्यो विष्ण्वादयः सुराः ॥ ८१॥ न च ब्रह्मा न चैवेन्द्रो नाग्निसूर्यानिलाःसुराः । यस्य शक्तिर्विचित्रास्य जगतः कारणं हरः ॥ ८२॥ ॥ इति शिवरहस्यान्तर्गते अथर्ववेदकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ४ सामवेदाथर्ववेदकृतस्तुतिः । ३३-८२ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 4 sAmavedAtharvavedakRRitastutiH . 33-82 .. Notes: Atharvaveda अथर्ववेद; delivers at the site of DakṣaYajña दक्षयज्ञ, a eulogy in favor of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Atharvavedakrita Shiva Stuti
% File name             : atharvavedakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (atharvavedakRitA shivarahasyAntargatA)
% engtitle              : atharvavedakRRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 4 sAmavedAtharvavedakRitastutiH | 33-82 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org