अतिदास्यकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
अतिदास्यः (उवाच) ।
सुधाधामखण्डोज्ज्वलच्चारुमौले
ललच्चारुकाकोदरापारहार ।
स्फुरत्सार कर्पूरधाराशरीर
स्मरापरागर्वापहार प्रसीद ॥
सुगङ्गातरङ्गौघरिङ्खज्जटाजूट नीडप्रफुल्लाम्बुजाऽऽरक्तनिर्यत्प्रभा-
कोटिकूटानलाकारभाल त्रिपुण्ड्राङ्कमध्योज्ज्वलन्नीलकण्ठ अगाधीश
कन्यासनाथ प्रसीद प्रभो मारमारान्तकाभोगभागान्धकादग्धसन्दिग्ध-
रक्त त्रिशूल ।
विशालाक्ष उक्षाङ्गसंस्थानहर्षप्रकार्षानुतर्षानटल्लोल दिक्पाल
वृन्धोज्ज्वलच्चारुमौलीविलोलाब्जपादाध्वराध्यक्ष पाहि ॥
शिवानङ्गभङ्गोत्थभस्माङ्गसङ्ग कृतार्धाङ्गरामाङ्ग लिङ्गोत्तमाङ्ग
भुजङ्गाङ्ग भूषाणलाक्षोरुपूषाविशेषोरुभासाविशेषाङ्गसङ्ग प्रसीद ।
प्रभो विश्वविश्वाधिकाशास्यगोध्यक्ष उक्षाध्वराध्यक्ष दक्षाध्वरध्वाङ्क्षभूता-
सुराध्यक्ष शिक्षाविनोद विभो पाहि वाहीकृताम्नाय साहित्यमेतत्तवाब्जाधि-
पादे समर्प्याहिहार ।
भवामि प्रभो मुक्तिकान्ताकराक्रान्तमार्गः समायाहि मोदम् ।
॥ इति शिवरहस्यान्तर्गते अतिदास्यकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ५९॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 59..
Proofread by Ruma Dewan