बाणकृतं २ शिवस्तोत्रम्
बाण उवाच ।
शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः ।
कुसुमायुधदेहविनाशकर प्रमदाप्रियकामुक देव नमः ॥ ८४॥
जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार ।
जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र ॥ ८५॥
जय विषधर कपिलजटाकलाप जय भैरवविधृतपिनाकचाप ।
जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग ॥ ८६॥
जय भीमरूप खट्वाङ्गहस्त जय शशिशेखर जगतां प्रशस्त ।
जय सुरवरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार ॥ ८७॥
जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र ।
जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल ॥ ८८॥
जय नीलकण्ठ वरवृषभगमन जय सकललोकदुरितानुशमन ।
जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण ॥ ८९॥
जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप सञ्चितनीय ।
जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व ॥ ९०॥
जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार ।
जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख ॥ ९१॥
अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः ।
प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचन कान्तिहर ॥ ९२॥
अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् ।
अतिप्रमाथि च तदा तपो महत्सुदारुणम् ॥ ९३॥
न पुत्रबान्धवा दारा न समस्तसुहृज्जनः ।
सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥ ९४॥
यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् ।
तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः ॥ ९५॥
निर्धनस्यैव चरतो न भयं विद्यते क्वचित् ।
धनी भयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥ ९६॥
लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः ।
श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥ ९७॥
त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः ।
इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते ॥ ९८॥
त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः ।
त्वं दीक्षा यजमानश्च आकाशं सोम एव च ॥ ९९॥
त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च ।
त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा ॥ १००॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे रेवाखण्डे अष्टाविंशा- ध्यायान्तर्गतं
बाणकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । रेवाखण्ड । अध्याय २८/८४-१००॥
skandapurANa . AvantyakhaNDa . revAkhaNDa . adhyAya 28/84-100..
Proofread by PSA Easwaran