बाणकृतं शिवस्तोत्रम्
बाण उवाच ।
नमस्ते भस्मदिग्धाङ्ग शूलिने ते नमो नमः ।
नमो विरूपरूपाय श्मशाननिरताय च ॥ १॥
हराय हरिरूपाय शंकराय नमो नमः ।
नमस्तुभ्यं विरूपाक्ष व्याघ्रचर्मनिवासिने ॥ २॥
नमस्तुण्डाय देवाय नग्नाय विकटाय च ।
ज्ञानप्रदायिने तुभ्यं योगिने यतचेतसे ॥ ३॥
नम आद्याय बीजाय वृषाय वृषरूपिणे ।
नमो घोराय घोराय घोरघोराय ते नमः ॥ ४॥
घोरप्रियाय घोराय रुद्राय वृषणाय च ।
वृषस्कन्धाय मोघाय गदिने खड्गिने नमः ॥ ५॥
मुण्डायाथ विरूपाय वामदेवाय ते नमः ।
नमो दक्षमखघ्नाय भगनेत्रहराय च ॥ ६॥
नमः स्मरविनाशाय गुहपित्रे नमो नमः ।
नमस्तुभ्यं नमस्तुभ्यं द्वीपिचर्मनिवासिने ॥ ७॥
नमो नमः पशुपते सर्वात्मन् सर्वभावन ।
मनोरथो जगन्नाथ पूर्यतां मम भावनात् ॥ ८॥
इति हरिवंशान्तर्गतं बाणकृतं शिवस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय १०६.६॥
harivaMsha . adhyAya 106.6..
Proofread by PSA Easwaran