बाणप्रार्थित गाणपत्यत्वप्राप्तिवर्णनम्
बाणः -
भक्तिं त्वदीयजनसङ्गममेव शम्भो
लिङ्गार्चनं च सुभगं तव बाणलिङ्गे ।
सम्प्रार्थयामि भगवंस्तव भक्तिभावं
वाञ्छा न मे भवति तुच्छभवादिधर्मे ॥ १॥
किं यागैरतितुतुच्छभोगफलदैः स्वर्गादिपातान्तकैः
किं गोभिर्धनन्यान्यरत्ननिकरैर्हैमैश्च पात्रार्पणैः ।
शम्भो नार्मदलिङ्गमस्तकगमं बिल्वीदलैः कोमलैः
सम्पूज्य प्रमथाधिनाथपदवीं प्राप्नोति भाग्यैर्युतः ॥ २॥
नीरैर्नार्मदजैः सुशोभितमहाकर्पूरखण्डद्रवैः
संसेव्यालोक्य हृष्टो भवदभयपदं प्राप्तुमिच्छामि शम्भो ।
गाणापत्यं ममास्तु प्रियममरवरैर्दुर्लभं त्वत्पदाब्जे
भक्तिर्भक्तैः सहास्तु प्रतिदिवसमहो सङ्गमश्चाघहारी ॥ ३॥
सद्यो नार्मदलिङ्गमण्डलमिदं बाणाख्यतां प्राप्नुया-
देवं देयो वरो मे प्रथयितुमखिलं लोकमद्य प्रसीद ॥ ४॥
ईश्वरः -
तस्योदारवचो निशम्य गिरिजे दत्तो वरो मे कृतो
गाणापत्यपदे स दैत्यतनयः शक्रादिगर्वापहः ।
सर्वं भक्तजनार्पणाय सततं चित्तं मदीयं शिवे
सद्भक्तो भुवि दुर्लभः सुखकरः श्रीबाणलिङ्गार्चकः ॥ ५॥
॥ इति शिवरहस्यान्तर्गते बाणप्रोक्तं गाणपत्यत्ववर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १०। ७०-७४॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 10. 70-74..
Notes:
Bana, the son of asura Mahabali, prays to Shiva to grant him the status of lord of gana-s. Shiva is pleased with him and accords to him the status of gana-pati and blesses that the Narmada Linga-s (Shiva lingas formed naturally in the river bed of Narmada) will henceforth also be known as Banalingas.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan