बृहस्पतिकृतं २ शिवस्तोत्रम्
बृहस्पतिस्तदा शम्भुं ज्ञात्वा सत्त्वधिया हि तम् ॥ ३४॥
बद्धाञ्जलिर्ननामेशं पपात दण्डवद्भुवि ।
सभयेन हृदयेन हरं स्तोतुं प्रचक्रमे ॥ ३५॥
नमोऽगम्यस्वरूपाय स्वतन्त्राय कपर्दिने ।
त्र्यम्बकाय महेशाय दिगम्बराय ते नमः ॥ ३६॥
नमो रौद्राय देवाय दीननाथाय शम्भवे ।
विरूपाक्षाय शान्ताय भक्तत्रात्रे नमो नमः ॥ ३७॥
विरूपायाऽतितेजस्विस्वरूपाय च ते नमः ।
कालान्तकाय शर्वाय नमस्ते परमात्मने ॥ ३८॥
त्वमग्निस्त्वं महावायुर्व्योम त्वं सलिलं धरा ।
सूर्यस्त्वं चन्द्रमास्त्वं च नक्षत्राणि त्वमेव ह ॥ ३९॥
ज्योतिश्चकं त्वयि चास्ते विष्णुर्ब्रह्मा त्वमेव वै ।
इन्द्रो बृहस्पतिश्चान्ये त्वदाराधनतः सदा ॥ ४०॥
सुखिनः सम्पदां भोक्तारश्चोपद्रववर्जिताः ।
भवन्ति तत्कथं नाथ स्तम्भोऽत्र सुरनायके ॥ ४१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३२४-अध्यायान्तर्गतं
बृहस्पतिकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३२४/३४-४१॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 324/34-41..
Proofread by PSA Easwaran