श्रीबटुकभैरवाष्टकस्तोत्रम् अथवा महाभैरवाष्टकम्

श्रीबटुकभैरवाष्टकस्तोत्रम् अथवा महाभैरवाष्टकम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः । अस्य श्रीबटुकभैरवाष्टकस्तोत्रमन्त्रस्य ईश्वर ऋषिः । गायत्री छन्दः । बटुकभैरवो देवताः । ह्रीं बीजम् । बटुकायेतिशक्तिः । प्रणवः कीलकम् । धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ अथ करन्यासः । कं अङ्गुष्ठाभ्यां नमः । हं तर्जनीभ्यां स्वाहा । खं मध्यमाभ्यां वषट् । सं अनामिकाभ्यां हुम् । गं कनिष्ठिकाभ्यां वौषट् । क्षं करतलकरपृष्ठाभ्यां फट् ॥ अथ हृदयादिन्यासः । कं हृदयाय नमः । हं शिरसे स्वाहा । खं शिखायै वषट् । सं कवचाय हुम् । गं नेत्रत्रयाय वौषट् । क्षं अस्त्राय फट् ॥ अथाङ्ग न्यासः । क्षं नमः हृदि । कं नमः नासिकयोः । हं नमः ललाटे । खं नमः मुखे । सं नमः जिह्वायाम् । रं नमः कण्ठे । मं नमः स्तनयोः । नमः नमः सर्वाङ्गेषु । आज्ञा । तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ १॥ अथ ध्यानम् । करकलितकपालः कुण्डलीदण्डपाणि स्तरुणतिमिरनीलोव्यालयज्ञोपवीती । क्रतुसमयसपर्या विघ्नविच्छेदहेतु- र्जयतिबटुकनाथः सिद्धिदः साधकानाम् ॥ २॥ इति ध्यानम् । पूर्वे आसिताङ्गभैरवाय नमः पूर्वदिशि मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । आग्नेये रुरुभैरवाय नमः आग्नेये मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । दक्षिणे चण्डभैरवाय नमः दक्षिणे मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । नैरृत्ये क्रोधभैरवाय नमः नैरृत्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । प्रतीच्यां उन्मत्तभैरवाय नमः प्रतिच्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । वायव्ये कपालभैरवाय नमः वायव्ये मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । उदीच्यां भीषणभैरवाय नमः उदिच्यां मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । ईशान्यां संहारभैरवाय नमः ईशाने मां रक्ष रक्ष कालकण्टकान् भक्ष भक्ष आवाहयाम्यहमत्रतिष्ठ तिष्ठ हुं फट् स्वाहा । ॥ नमो भगवते भैरवाय नमः क्लीं क्लीं क्लीम् ॥ इति मन्त्रमष्टोत्तरशतं जप्त्वा चतुर्विधपुरुषार्थसिद्धये महासिद्धिकरभैरवाष्टकस्तोत्र पाठे विनियोगः ॥ यं यं यं यक्षरूपं दिशिचकृतपदं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा भालदेशेऽर्धचन्द्रम् । दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ १॥ रं रं रं रक्तवर्णं कटिनतनुमयं तीक्ष्णदंष्ट्रं च भीमं घं घं घं घोरघोषं घ घ घनघटितं घुर्घुरा घोरनादम् । कं कं कं कालनाशं ध्रिकि ध्रिकि चकितं कालमेघावभासं दं दं दं दिव्यदेहं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ २॥ लं लं लं लम्बदन्तं ल ल ल ल ललितल्लोलजिह्वाकरालं धुं धुं धुं धूम्रवर्णं स्फुटविकृतनखमुखं भास्वरं भीमरूपम् । रुं रुं रुं रुण्डमालं रुधिरमयतनुं ताम्रनेत्रं सुभीमं नं नं नं नग्नरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ३॥ वं वं वं वायुवेगं ग्रहगणनमितं ब्रह्मरुद्रैस्सुसेव्यं खं खं खं खड्गहस्तं त्रिभुवननिलयं घोररूपं महोग्रम् । चं चं चं व्यालहस्तं चलित चल चला चालितं भूतचक्रं मं मं मं मातृरूपं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ४॥ शं शं शं शङ्खहस्तं शशिशकलधरं सर्पयज्ञोपवीतं मं मं मं मन्त्रवर्णं सकलजननुतं मन्त्रसूक्ष्मं सुनित्यम् । भं भं भं भूतनाथं किलिकिलिकिलितं गेहगेहेरटन्तं अं अं अं मुख्यदेवं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ५॥ खं खं खं खड्गभेदं विषममृतमयं कालकालं सुकालं क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्तप्तमानम् । हं हं हङ्कारनादं प्रकटितदशनं गर्जिताम्भोपिभूमिं बं बं बं बाललीलं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ६॥ सं सं सं सिद्धियोगं सकलगुणमयं रौद्ररूपं सुरौद्रं पं पं पं पद्मनाभं हरिहरनुतं चन्द्रसूर्याग्निनेत्रम् । ऐं ऐं ऐं ऐश्वर्यरूपं सततभयहरं सर्वदेवस्वरूपं रौं रौं रौं रौद्रनादं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ७॥ हं हं हं हंसहास्यं कलितकरतले कालदण्डं करालं थं थं थं स्थैर्यरूपं शिरकपिलजटं मुक्तिदं दीर्घहास्यम् । टं टं टङ्कारभीमं त्रिदशवरनुतं (त्रिदशलटलटं) कामिनां दर्पहारं भुं भुं भुं भूतनाथं नतिरिह सततं भैरवं क्षेत्रपालम् ॥ ८॥ भैरवस्याष्टकं स्तोत्रं पवित्रं पापनाशनम् । महाभयहरं दिव्यं सिद्धिदं रोगनाशनम् ॥ इति श्रीरुद्रयामलेतन्त्रे महाभैरवाष्टकं सम्पूर्णम् । Encoded by Gopal Upadhyay from a manuscript Proofread by Gopal Upadhyay, Shashtri Pulkitbhai Vyas
% Text title            : mahAkAlabhairavAShTakam baTukabhairavAShTakam 1
% File name             : baTukabhairavAShTakam.itx
% itxtitle              : mahAkAlabhairavAShTakam 1 vA tIkShNada.nShTrakAlabhairavAShTakam bhairavatANDavastotram shrIkShetrapAlabhairavAShTakam baTukabhairavAShTakam athavA mahAbhairavAShTakam (rudrayAmalatantrAntargatam)
% engtitle              : mahAkAlabhairavAShTakam baTukabhairavAShTakam 1
% Category              : shiva, aShTaka, bIjAdyAkSharamantrAtmaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, Shashtri Pulkitbhai Vyas, Ruma Dewan
% Description/comments  : Rudrayamala
% Indexextra            : (Manuscript, alternative)
% Latest update         : July 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org