श्रीबटुकभैरवाष्टोत्तरशतनामावलिः

श्रीबटुकभैरवाष्टोत्तरशतनामावलिः

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः । ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालाग्निरुद्र ऋषिः । अनुष्टुप् छन्दः । आपदुद्धारकबटुकभैरवो देवता । ह्रीं बीजम् । भैरवीवल्लभः शक्तिः । नीलवर्णो दण्डपाणिरिति कीलकम् । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥ ऋष्यादि न्यासः - ॐ कालाग्निरुद्र ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्ये । भैरवीवल्लभ शक्तये नमः पादयोः । नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ अथ मूलमन्त्रः - ॥ ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा - ॥ इति मूलमन्त्रः ॥ अथ ध्यानम् - नीलजीमूतसङ्काशो जटिलो रक्तलोचनः । दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥ दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः । हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥ नागराजकटीसूत्रो बालमूर्ति दिगम्बरः । मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥ भूतप्रेतपिशाचैश्च सर्वतः परिवारितः । योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥ अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः । भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥ ॥ इति ध्यानम् ॥ अथ नामावलिः । ॐ बटुकाय नमः । वरदाय । शूराय । भैरवाय । कालभैरवाय । भैरवीवल्लभाय । भव्याय । दण्डपाणये । दयानिधये । वेतालवाहनाय । रौद्राय । रुद्रभ्रुकुटिसम्भवाय । कपाललोचनाय । कान्ताय । कामिनीवशकृते । वशिने । आपदुद्धारणाय । धीराय । हरिणाङ्कशिरोमणये । दंष्ट्राकरालाय नमः । २० ॐ दष्टोष्ठाय / ओष्ठौ दष्टाय नमः । धृष्टाय । दुष्टनिबर्हणाय । सर्पहाराय । सर्पशिरसे । सर्पकुण्डलमण्डिताय । कपालिने । करुणापूर्णाय । कपालैकशिरोमणये । श्मशानवासिने । मांसाशिने । मधुमत्ताय । अट्टहासवते । वाग्मिणे । वामव्रताय । वामाय । वामदेवप्रियङ्कराय । वनेचराय । रात्रिचराय । वसुदाय नमः । ४० ॐ वायुवेगवते नमः । योगिने । योगव्रतधराय । योगिनीवल्लभाय । यूने । वीरभद्राय । विश्वनाथाय । विजेत्रे । वीरवन्दिताय । भूताध्यक्षाय । भूतिधराय । भूतभीतिनिवारणाय । कलङ्कहीनाय । कङ्कालिने । क्रूरकुक्कुरवाहनाय । गाढाय । गहनगम्भीराय । गणनाथसहोदराय । देवीपुत्राय । दिव्यमूर्तये नमः । ६० ॐ दीप्तिमते नमः । दीप्तिलोचनाय । महासेनप्रियकराय । मान्याय । माधवमातुलाय । भद्रकालीपतये । भद्राय । भद्रदाय । भद्रवाहनाय । पशूपहाररसिकाय । पाशिने । पशुपतये । पतये । चण्डाय । प्रचण्डचण्डेशाय । चण्डीहृदयनन्दनाय । दक्षाय । दक्षाध्वरहराय । दिग्वाससे । दीर्घलोचनाय नमः । ८० ॐ निरातङ्काय नमः । निर्विकल्पाय । कल्पाय । कल्पान्तभैरवाय । मदताण्डवकृते । मत्ताय । महादेवप्रियाय । महते । खट्वाङ्गपाणये । खातीताय । खरशूलाय । खरान्तकृते । ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने । ब्राह्मणपालकाय । दिग्चराय । भूचराय । भूष्णवे । खेचराय । खेलनप्रियाय नमः । १०० ॐ सर्वदुष्टप्रहर्त्रे नमः । सर्वरोगनिषूदनाय । सर्वकामप्रदाय । शर्वाय । सर्वपापनिकृन्तनाय नमः । १०५ इति कालसङ्कर्षणतन्त्रोक्त श्रीबटुकभैरवाष्टोत्तरशतनामावलिः समाप्ता । Proofread PSA Easwaran
% Text title            : Batukabhairava Ashtottarashatanamavalih 2
% File name             : baTukabhairavAShTottarashatanAmAvaliH2.itx
% itxtitle              : baTukabhairavAShTottarashatanAmAvaliH 2 (kAlasaNkarShaNatantrAntargatam baTukAya varadAya)
% engtitle              : BatukabhairavashtottarashatanamAvaliH 2
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Source                : kAlasaNkarShaNatantra
% Latest update         : January 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org