बटुकभैरवाष्टोत्तरशतनामस्तोत्रं ३

बटुकभैरवाष्टोत्तरशतनामस्तोत्रं ३

(कालसङ्कर्षणतन्त्रोक्तम्) विनियोगः - अस्य श्री बटुकभैरवाष्टस्तोत्र मन्त्रस्य कालाग्निरुद्र ऋषिरनुष्टुप्छन्दः आपदुद्धारक श्री बटुककेश्वरो देवः भैरवी वल्लभः शक्तिः ह्रीं बीजं दण्डपाणिः कीलकं मम समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः । ऋष्यादिन्यासः - कालग्निरुद्रऋषये नमः (शिरसि)। अनुष्टप् छन्दसे नमः (मुखे)। आपदुद्धारक श्री बटुकेश्वर देवाय नमः (हृदये )। भैरवीवल्लभशक्तये नमः (पादयोः)। ह्रीं बीजाय नमः (गुह्ये)। दण्डपाणि कीलकाय नमः (नाभौ )। मम समस्त शत्रुदमन-समस्तापन्निवारण -सर्वाभीष्टप्रदान विनियोगाय नमः (सर्वाङ्गे)। करषडङ्गन्यासौ - ॐ ह्रां बां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं बीं तर्जनीभ्यां नमः । ॐ ह्रूं बूं मध्यमाभ्यां नमः । ॐ ह्रैं बैं अनामिकाभ्यां नमः । ॐ ह्रौं बौं कनिष्ठकाभ्यां नमः । ॐ ह्रः बः करतलपृष्ठाभ्यां नमः । (एवं हृदयादि) ध्यानं - नीलजीमूतसङ्काशो जटिलो रक्तलोचनः । दंष्ट्राकरालवन्दनः सर्पयज्ञोपवीतवान् ॥ १॥ दंष्ट्रायुधालङ्कृतश्च कपालस्त्रग्विभूषितः । हस्तन्यस्तकिरीटीको भस्मभूषितविग्रहः ॥ २॥ नागराजकटीसूत्रो बालमूर्तिर्दिगम्बरः । मञ्जुशिञ्जानमञ्जीरपादकम्पितभूतलः ॥ ३॥ भूतप्रेतपिशाचैश्च सर्वतः परिवारितः । योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥ ४॥ अट्टहासस्फुरद्वक्त्रो भृकुटीभीषणाननः । भक्तसंरक्षणाथार्य दिक्षु भ्रमणतत्परः ॥ ५॥ एवम्भूतं तु बटुकं ध्यायामि बटुकेश्वरम् । आपदुद्धारकं देवं सर्वकामार्थदायकम् ॥ ६॥ एवं ध्यात्वा मानसैः सम्पूज्य च १०८ वारं मूलमन्त्रं जपेत् । मूलमन्त्रो यथा - ``ऊँ ह्रीं बं बटुकाय क्ष्रौं क्ष्रौं आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं बटुकाय स्वाहा । `` मन्त्रजपप्रार्थना - तारो माया तदनु बटुकाय द्वयं क्ष्रौं तदाय- च्छब्दोद्धाराय शिरसि कुरु द्वन्द्वमुच्चैः प्रयुज्य । ह्रीं बीजं यद्बटुकपुटिलं भौवनं चाग्निजाया । एषा विद्या बटुकभव ते वाञ्छितं मे ददातु ॥ अथ स्तोत्रं - ॐ ह्रीं बटुको वरदः शूरो भैरव कालभैरवः । भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥ १॥ वेतालवाहनो रौद्रो रुद्रभृकुटिसम्भवः । कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥ २॥ आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः । दंष्ट्राकरालो दृष्टौष्ठो धृष्टो दुष्टनिबर्हणः ॥ ३॥ सर्पहारः सर्पशिरः सर्पकुण्डलमण्डितः । कपाली करुणापूर्णः कपालिकशिरोमणिः ॥ ४॥ श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् । वाग्मी वामव्रतो वाङ्मी वामदेवप्रियङ्करः ॥ ५॥ वनेचरो गिरिचरो वसुदो वायुवेगवान् । योगी योगव्रतधरो योगिनीवल्लभो युवा ॥ ६॥ वीरभद्रो विश्वनाथो विजेता वीरवन्दितः । भूताध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥ ७॥ कलङ्कहीनः कङ्काली क्रूरः कुक्कुरवाहनः । गाढो गहनगम्भीरो गणनाथे-सहोदरः ॥ ८॥ देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तलोचनः । महासेनप्रियकरो मान्यो माधवमातुलः ॥ ९॥ भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः । पशूपहाररसिकः पाशी पशुपतिर्पतिः ॥ १०॥ चण्डः प्रचण्ड चण्डेशश्चण्डीहृदयनन्दनः । दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥ ११॥ निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः । मदताण्डवकृन् मत्तो महादेवप्रियो महान् ॥ १२॥ खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्रह्मणपालकः ॥ १३॥ दिक्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः । सर्वरोगप्रहर्त्ता च सर्वरोगनिषूदनः ॥ १४॥ सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः । पातु मां सर्वतः श्रीमान् बटुको भैरवः सदा ॥ १५॥ ॥ इति कालसङ्कर्षणतन्त्रोक्तं बटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Notes: The BaṭukaBhairavĀṣṭottaraśataNāmāvaliḥ 3 बटुकभैरवाष्टोत्तरशतनामावलिः ३)derived from the KālasaṅkarṣaṇaTantroktaṁ Baṭuka Bhairava Aṣṭottaraśatanāma StotraM कालसङ्कर्षणतन्त्रोक्तं बटुक भैरव अष्टोत्तरशतनामस्तोत्रम् can be accessed from the respective link given below. Proofread by Ruma Dewan
% Text title            : Batukabhairav Ashtottarashata Nama Stotram 3
% File name             : baTukabhairavAShTottarashatanAmastotraM3.itx
% itxtitle              : baTukabhairavAShTottarashatanAmastotraM 3 (kAlasaNkarShaNatantroktaM OM hrIM baTuko varadaH shUro bhairava kAlabhairavaH)
% engtitle              : baTukabhairavAShTottarashatanAmastotraM 3
% Category              : shiva, aShTottarashatanAma, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : From Kalasankarshanatantra. See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org