श्रीबटुकभैरवबकारादिसहस्रनामस्तोत्रम् ३
उक्तं च भैरवयामलतन्त्रे ।
श्रीपार्वत्युवाच ।
यद्गुह्यं परमाख्यातं त्रिषु लोकेषु दुर्लभम् ।
कोटिग्रन्थेषु गोप्यं यत्सूचितं न प्रकाशितम् ॥ १॥
सर्वसम्पत्प्रदं पुण्यं सर्वापत्क्षयकारकम् ।
तदहं श्रोतुमिच्छामि बटुकस्य महात्मनः ॥ २॥
नाम्नां सहस्र दिव्यानां बकाराख्यं महात्मनाम् ।
कृपया वद देवेश यद्यहं तव वल्लम्भा ॥ ३॥
श्रीमहादेव उवाच ।
सूचितं मे त्वयि स्नेहादप्रकाश्यं कुलेश्वरि ।
नाम्नां सहस्रं कोटीनां सारतः सारमुत्तमम् ॥ ४॥
न वक्तव्यं त्वया देवि चित्तस्थं मम पार्वति ।
अप्रकाश्यतमं देवि प्राणेभ्यो ये परे प्रिये ॥ ५॥
ब्रह्मभैरवोवाच ।
इत्युक्त्वा भगवान्देवो बोध्यः स्वात्मानमात्मना ।
पुलकाञ्चितसर्वाङ्गो न च किञ्चिदुवाचह ॥ ६॥
श्रीपार्वत्युवाच ।
देवदेव महादेव भक्तानुग्रहकारक ।
नाम्नां सहस्रं दिव्यानां बकाराख्यं शुभप्रदम् ॥ ७॥
गोप्यं तु सर्वगोप्यानां वद मे परमेश्वर ।
अप्रकाश्यं कुलेशान यद्यहं प्राण वल्लभा ॥ ८॥
श्रीमहादेव उवाच ।
शृणु देवि महागुह्यं रहस्यं परमाद्भुतम् ।
न कस्यचिन्मया ख्यातमद्यापि प्राणवल्लभे ॥ ९॥
सुखसम्पत्प्रदं देवि धनधान्यजयप्रदम् ।
भूतग्रहपिशाचानां स्मरणादेव नाशनम् ॥ १०॥
कृत्याद्रोहादिशमनं बालग्रहनिवारणम् ।
चतुर्वर्गचतुर्भद्रगदमेतन्न संशयः ॥ ११॥
बटुकस्येह नामानि प्रयुतान्यर्बुदानि च ।
सारात्सारतरं शेषं सहस्रं शृणु यत्नतः ॥ १२॥
सुधासिन्धुमणिद्वीपे पारिजातवनावृते ।
प्रक्षालयतु भूमध्ये शेतभूतस्थमीश्वरम् ॥ १३॥
विपरीतरतासक्तं कौमारं विलसद्धृदि ।
चतुर्बाहुं त्रिनयनमञ्जनाद्विसमप्रभम् ॥ १४॥
जटाजूटधरं देवं शशाङ्ककृतशेखरम् ।
भुजङ्गमेखलायुक्तं दिग्वाससमनाकुलम् ॥ १५॥
डमरुं च कपालं च वरं शूलं क्रमात्करैः ।
दूधतं च कटैर्दतेः करालवदनं विभुम् ॥ १६॥
ध्यात्वैवं साधकस्तुष्टो जपेत्सिद्धिमवाप्नुयात् ।
ब्रह्मभैरव उवाच ।
नाम्ना सहस्रं दिव्यानां बटुकस्य महात्मनः ॥ १७॥
वक्ष्यामि तत्त्वतः सम्यक् सारेभ्यः सारमुत्तमम् ।
सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् ॥ १८॥
सर्वपापहरं पुण्यं साधकानां सुखप्रदम् ।
आयुः पुष्टिश्रीकरं च पुत्रपौत्रादिवर्धनम् ॥ १९॥
बटुकस्तोत्रमुख्यस्य महादेव ऋषिः स्मृतः ।
महाबटुकभैरवो देवता परिकीर्तिता ॥ २०॥
छन्दो विराट् सर्वकार्ये सिद्ध्यर्थे साधकस्य तु ।
बटुकस्य चतुर्थ्येतं विनियोगः प्रकीर्तितः ॥ २१॥
महादेवेन यत्प्रोक्तं पार्वत्यै सर्वमङ्गलम् ।
सर्वशत्रुक्षयकरं सर्वापद्विनिवारणम् ॥ २२॥
सर्ववेदाङ्गमुख्यं च सारात्सारांशमुत्तमम् ।
देवदेवेन यत्प्रोक्तं हिमाचलसुतां प्रति ॥ २३॥
अत्युग्रकृतिभूताङ्गीं कारुण्यात्प्रीतचेतसा ।
तदेव ते प्रवक्ष्यामि गुरुभक्ताय साम्प्रतम् ॥ २४॥
अतियत्नान्मया प्राप्तं दक्षिणाक्रमयोगतः ।
तदहं सम्प्रवक्ष्यामि यच्छ्रुतं परमाद्भुतम् ॥ २५॥
कुलीनाय च शान्ताय भक्ताय च सुबुद्धये ।
धनमानप्रदात्रे च देवार्चनरताय च ॥ २६॥
देवतामानत्यक्ताय धर्मबुद्धिपराय च ।
वदान्याय च योग्याय प्रणयायादृतात्मने ॥ २७॥
गोत्रप्रदेयमाज्ञप्तमिति देव्या पुरो मम ।
अतस्तुभ्यं प्रवक्ष्यामि करुणार्द्रे महात्मने ॥ २८॥
बटुकस्य च देवस्य मदोन्मत्तस्य शूलिनः ।
स्तोत्रं सहस्रनामाख्यं बकाराख्यं सुसंयुतम् ॥ २९॥
यस्य स्मरणमात्रेण श्रवणेन प्रयत्नतः ।
पठनात्पाठनाद्वापि सर्वसिद्धिमुपालभेत् ॥ ३०॥
यत्र स्थितमिदं स्तोत्रं तत्र श्रीस्सर्वतो मुखी ।
तत्र सर्वत्र विजयो भवत्येव न संशयः ॥ ३१॥
तत्र लोका वशे सर्वे सर्वेषां भैरवस्य तु ।
उपमन्यो बहुत्वेकं न वाच्यं यस्य कस्यचित् ॥ ३२॥
गुरुं सन्तोष्य यत्नेन पठितव्यं समाहितैः ॥ ३३॥
ब्रह्मभैरव उवाच ।
ॐ अस्य श्रीबटुकभैरवस्य बकाराख्यसहस्रनामस्तोत्रस्य ।
महादेव ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।
बं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् ।
ममाभीष्टसिद्ध्यर्थे पाठे विनियोगः ।
महादेवर्षये नमः शिरसि ।
अनुष्टुपछन्दसे नमः मुखे ।
श्रीबटुकभैरवदेवतायै नमः हृदये ।
बं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
ह्रीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वोगे ।
करषडङ्गन्यासः ।
ॐ बां ईशानाय नमः अङ्गुष्ठाभ्याम् ॥
ॐ बीं तत्पुरुष नमः तर्जनीभ्याम् ॥
ॐ बूं अघोराय नमः मध्यमाभ्याम् ॥
ॐ बैं वामदेवाय नमः अनामिकाभ्याम् ॥
ॐ बौं सद्योजाताय नमः कनिष्ठिकाभ्याम् ॥
ॐ बः रौद्राय नमः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।
ध्यानं तु कामनाविषयेण ध्यात्वा सात्त्विकराजसतामसं च ।
ॐ बं बं बं बटुको वीरो बां बां बां बटुकस्तथा ।
बीं बीं बीं बटुको वीरो बूं बूं बूं बटुकस्तथा ॥ ३४॥
बैं बैं बैं बटुकः क्रोध्यो बौं बौं बौं बटुकस्तथा ।
बः बः बः बटुको रावो ब्रः ब्रः ब्रः शब्दतत्परः ॥ ३५॥
बं यतित बिं बध्वारो बं हृ बं प्रीति कारकः ।
वज्रायुधो वज्रहस्तो वज्रायुधभयावहः ॥ ३६॥
वज्रायुधाङ्गसम्पृष्टो वज्रायुधपदः सदा ।
वज्रायुधस्तुतो वज्री बुधराधवरः स्मृतः ॥ ३७॥
वज्रायुधः सुखकरो वज्रायुधसुखप्रदः ।
वज्रायुधो वज्रश्रेष्ठो वज्रायुधगतिः स्मृ ॥ ३८॥
वज्रायुधः प्राणत्रातो वज्रायुधसुखप्रदः ।
वज्रायुधो वज्रश्रेष्ठो वज्रायुधगतिः स्मृतः ।
वज्रायुधः प्राणत्रातो वज्रायुधपदः स्मृतः ॥ ३९॥
वज्रह तो वज्रपादो वज्रदंष्ट्राग्रजिह्वकः ।
वज्रमुखो वज्रकुलो वज्र स्थापिङ्गलः स्मृतः ।
वज्रायुधप्रियसखो वज्रायुधो वज्रप्रीतिहा ॥ ४०॥
वज्रायुधप्राणिजातो वज्रायुधवरप्रदः ।
वज्रायुधा शमनो वज्रायुध विधारकः ॥ ४१॥
वज्रायुधप्राणदाता वज्रायुधपरायणः ।
वज्रविज्ञानसम्भावो वज्रसेभ्यो वरप्रदः ॥ ४२॥
वज्रसेव्यप्रियः प्राणो वज्रसेग्य यः सदा ।
वज्रप्रियो वज्रमयो वज्रतेजप्रवर्त्तकः ॥ ४३॥
वज्रनिधिर्वत्रप्राणो वज्रसेन्यवरप्रदः ।
वज्राधीशो वज्रधरो बन्धुपुष्पाजवो धवः ॥ ४४॥
बन्धुपुष्प प्रतीकाशो बन्धुद्रुमसमागमः ।
बन्धुपुष्पश्च बन्धूम्रः बन्धुपुष्पजयोद्भवः ॥ ४५॥
बन्धुपुष्पप्रपूजश्च बन्धुपुष्पस्वरूपकः ।
बन्धुपुष्पप्रतीकाशो बन्धूकारुण्यविग्रहः ॥ ४६॥
बन्धूकारुणनीलो भूः बन्धूकपुष्पवासिनः ।
बन्धूककुसुमस्निग्धो बन्धूकसुमनोत्सवः ॥ ४७॥
बन्धूकपुष्पकिरणो बन्धूकपुष्पपालकः ।
बन्धूकसुमनोध्येयो बन्धूकसुमनप्रभः ॥ ४८॥
बन्धूकसुमनज्ञाता बन्धूककुसुमाधरः ।
बन्धूककुसुमोल्लासो बन्धूकपुष्पवर्षिणी ॥ ४९॥
बन्धूककुसुमानन्दो बन्धूकवनवासिनः ।
बन्धूककुसुमोत्साहो बन्धूकपुष्परूपकः ॥ ५०॥
बन्धूककुसुमोन्मादो बन्धूकपुष्पधारिणः ।
बन्धूककुसुमाराधो बन्धूककुसुमोद्भवः ॥ ५१॥
बन्धूककुसुमप्राणो बन्धूककुसुमार्चितः ।
बन्धूकपुष्पवटिको बन्धूकपुष्प तर्पितः ॥ ५२॥
बन्धूक पुष्पमुकुटो बन्धूककुसुमप्रियः ।
बन्धककुसुमाद्भव्यो बन्धूक पुष्पविग्रहः ॥ ५३॥
बन्धूक कुसुमप्रख्यो बन्धूककुसुमात्मकः ।
बन्धककुसुमप्राज्ञो बन्धूक पुष्पवर्तिकः ॥ ५४॥
बन्धूकपुष्पसर्वस्वो बन्धूकपट्टपुरकः ।
बन्धूकपदसर्वस्वो बन्धूकपट्टपूरकः ॥ ५५॥
बकुलपुष्पसम्पूज्यो बकुलपुष्पहोमदः ।
बकुलपुष्पमध्यस्थो बकुलफल भोजनः ॥ ५६॥
बकुलकाननान्तस्थो बकुलावालपाशकः ।
बकुलाचलराध्यश्च बकुलामुखिपुत्रकः ॥ ५७॥
बकुलकुसुमप्रीतो बकुलकुसुमार्चितः ।
बकुलपुष्पनिलयो बकुलपुष्परासिनः ॥ ५८॥
बकुलकुसुमज्ञातो बकुलपुष्पधारकः ।
बकुलकुसुमोल्लासो बकुलपुष्पवर्तिनः ॥ ५९॥
बकुलकुसुमानन्दोबकुलवनवासिनः ।
बकुलकुसुमोत्साहो बकुलपुष्परूपकः ॥ ६०॥
बकुलकुसुमोन्मादो बकुलपुष्पधारकः ।
बकुलकुसुमाराध्यो बकुलकुसुमोद्भवः ॥ ६१॥
बकुलकुसुमप्राणो बकुलकुसुमार्चितः ।
बकुलपुष्पखचितो बकुलपुष्पतर्पितः ॥ ६२॥
बकुलपुष्पमुकुटो बकुलकुसुमप्रियः ।
बकुलकुसुमोदर्पो बकुलपुष्पविग्रहः ॥ ६३॥
बकुलपुष्पमाली च बकुलकुसुमात्मकः ।
बकुलकुसुमप्राज्ञो बकुलपुष्पवर्त्तकः ॥ ६४॥
बकुलपुष्पधारी च बकुलनिन्दकान्तकः ।
बकुलप्रदसर्वस्वो बदरीफल भोजनः ॥ ६५॥
बद्रिकाश्रमवासश्च बद्रिकाचलपुण्ड्रकः ।
वसुदो वसुधाराध्यो वसुदानपरायणः ॥ ६६॥
बहुनेत्रो बहुलास्यो बहुहस्तो बहुप्रदः ।
बह्वाननो बहुकर्णो बहुपापविनाशनः ॥ ६७॥
वल्लभो वल्लभापीतो वल्लभाबहुरूपकः ।
बहुगुणश्च सर्वोधो बहुगुणपरायणः ॥ ६८॥
बहुगुणश्च सम्प्रीतो बहुगुणप्रकाशकः ।
बहुगुणसुसपूज्यो बहुगुणस्वरूपकः ॥ ६९॥
बहुगुणसुसंहृष्टो बहुगुणप्रधारणः ।
बकारवर्णसर्वाङ्गो बकाररूपधारणः ॥ ७०॥
बकारिहस्तिभूषाढ्यो बकारमुकुटस्थितः ।
बकारहृदयाराध्यो बकाराभरणाकृतः ॥ ७१॥
बकारण वधारुष्टो बम्बीजतोषितः सदा ।
वारुणीजयसन्तुष्टो वारुणीपानसुन्दरः ॥ ७२॥
वारुणीचुम्बनानन्दो वारुणीमण्डले स्थितः ।
वारुणीगतगम्यश्च वारुणीप्रेमचन्द्रिकः ॥ ७३॥
वारुणीमुखमध्यस्थो वारुणीगणमण्डितः ।
वारुणी मण्डलानन्तो वारुणीकुण्डरूपिणः ॥ ७४॥
वारुणीमनसा राध्यो वारुणीतत्त्वतः प्रियः ।
वारुणीमोदरसिको वारुणी मोदवासिनः ॥ ७५॥
वारुणीभोगरसिको वारुणीकुचमण्डनः ।
वारुणीयोगमार्गस्थो वारुणीयोगरूपिणः ॥ ७६॥
वारुणीपूजकः प्राणो वारुणीनिन्दकान्तकः ।
वारुणीप्राणसन्मान्यो वारुणीदृष्टिगोचरः ॥ ७७॥
वारुणीकेशसम्मार्जो वारुणीनाभिमध्यगः ।
वारुणीमोदसम्प्रीतो वारुणीमोदरूपकः ॥ ७८॥
वारुणीदास्यसम्प्रीतो वारुणीध्यानतत्परः ।
वारुणीवाक्यरसिको वारुणीकुण्डपूजकः ॥ ७९॥
वारुणीपाननन्दो भूर्वारुणीरति तत्परः ।
वारुणीताण्डवानन्दनायको वारुणार्णवः ॥ ८०॥
वारुणीकुण्डमध्यस्थो वारुणीकुण्डसुन्दरः ।
वारुणीशास्त्रसम्प्रीतो वारुणीमध्यसुन्दरः ॥ ८१॥
वारुणीभोगरसिको वारुणीमृतदीर्घिकः ।
वारुणीसौख्यदः प्रीतो वारुणीचन्द्रसुन्दरः ॥ ८२॥
बिल्वो बिल्वकरो बिल्वो बिल्वपत्रप्रपूजकः ।
बिल्ववृक्षसमागम्यो बिल्वपत्रस्थबिल्वभूः ॥ ८३॥
बिल्वपुष्पप्रियः प्राणो बिल्वपुष्पप्रमोदकः ।
बिल्वपुष्पप्रपूज्योथ बिल्वपुष्पस्वरूपकः ॥ ८४॥
बिल्वपत्रमहोदश्च बिल्वफलप्रभोजनः ।
बिल्वप्रियोबिल्वमयो बिल्ववृक्षनिवासिनः ॥ ८५॥
बिल्ववृद्धिकरो बिल्वप्रियो बिल्वनिषेविनः ।
बिल्वपत्रस्थसर्वाङ्गो बिल्ववृक्षप्रपालकः ॥ ८६॥
विभावसुसमं तेजो विभावसुसमागमः ।
विभावसुर्मन्दगतिर्विभाव सुरिवामतिः ॥ ८७॥
विभावसुप्रपूज्यश्च विभावसुप्रपूजकः ।
बिम्बाधरो बिम्बरूपो विश्वविद्याविनोदनः ॥ ८८॥
विगम्या वेदकर्त्ता च विधिकर्त्ता विधिप्रभः ।
विधिविध्याता विनदो विधिगम्यो विधिवरः ॥ ८९॥
विधिसपत्रमूर्तिश्च वधिशापविमोचकः ।
विधिशास्त्रो विधिप्राज्ञो विदुषो गुरुदेवता ॥ ९०॥
विक्रधिक्रमसञ्चारो विधिशास्त्र विचारणः ।
विविधिक्रमसञ्चारो विविक विविधिक्रमः ॥ ९१॥
विधुपुत्रप्रियसखो विधिपुत्रभयावहः ।
विधिपुत्रपरित्राता विधिपुत्रवरप्रदः ॥ ९२॥
विधुविज्ञानविभवो विधुशीर्षेषु शोभनः ।
विश्वामित्रसुसम्पन्नो विश्वामित्रवरप्रदः ॥ ९३॥
विश्वामित्रमूर्तिधारी विश्वामित्रस्वरूपकः ।
विश्वामित्रगुरुश्रेष्ठो विश्वामित्रप्रभञ्जकः ॥ ९४॥
विश्वामित्रयोगप्रियो विश्वामित्रनुतिप्रियः ।
विश्वामित्रपरिज्ञातो विश्वामित्रयोगक्षमः ॥ ९५॥
विश्वमित्रातिंशमनो विश्वामित्रार्तिनाशनः ।
विषदो विषदाचारो विषपाने सदा रतः ॥ ९६॥
विमलो विमलाङ्गश्च विमलाचारतत्परः ।
विश्वेश्वरो विश्वराजा विघ्नसङ्घविनाशनः ॥ ९७॥
विनायको विघ्नराजो विघ्नविच्छेदनाशनः ।
बिम्बाधरो बिबरुचिर्विश्व द्याविनोदनः ॥ ९८॥
वीणाधरो वीणानाथ वीणावाद्य परायणः ।
वीरमुख्यो वीरप्रियो वीरस्थायोगणः सदा ॥ ९९॥
वीरमन्त्रो वीरश्रेष्ठो बीरस्त्रीगमनोपरः ।
बुद्धिबुद्ध्याकृतिधरो बुद्धिशावी बुधप्रियः ॥ १००॥
बुद्धिपूर्णो बुद्धिधरो बुद्धिभा बुद्धिदूरगः ।
बुद्धिर्बुद्धवपुर्वृद्धिः शरीरो बुद्धिमण्डितः ॥ १०१॥
बुद्धिप्रभुश्च बुद्धिर्बुद्धिकृतचराचरः ।
बुद्धिप्रणवसन्तुष्टो बुद्धिहीनपराङ्मुखः ॥ १०२॥
बुद्धिभृदबुद्धित्दृत्कर्ता बुद्धिश्रेष्ठो बुद्धिप्रभुः ।
बुधेशो बुधसन्तुष्टो बुधैकसदनं सदा ॥ १०३॥
बुद्धिमांश्चैव बुद्धिश्च बुद्धिमान्बुद्धिभाजनः ।
बुद्धिप्रणीतपादाग्रो बुद्धिगीतबुधौजसः ॥ १०४॥
बुद्धिमान्बुद्धिसम्पन्नो बुद्धया नन्दितमानसः ।
बुद्धिमार्गप्रणेता च बुद्धिसञ्चारचातुरः ॥ १०५॥
बुद्धिगौणो बुद्ध्याधारो बुद्धिसम्बुद्धिचेतनः ।
बुद्धिरुद्बुद्धित्दृन्नित्यं बुद्ध्याग्रो बुद्धिपारदः ॥ १०६॥
बुद्धिवृद्धिप्रचारोऽभूद्बुद्धया बुद्धि विवेक वित् ।
बुद्ध्याकरो बुद्धिकरो बुद्धिप्राणविवर्द्धनः ॥ १०७॥
बुद्धिगूढधरो बुद्धिर्बुद्धिसञ्चारचेष्टितः ।
बुद्धिदक्षिणताहार्दो बुद्धिलक्षण तत्त्ववित् ॥ १०८॥
बुद्ध्याचारी बुद्धिहारी बुद्धिसुखप्रदायकः ।
बुद्धिसंस्कृतसञ्चारी बुद्धितत्त्वविवेकवित् ॥ १०९॥
बुद्धिगर्वधरो बुद्धिर्बुद्धिगर्वपराभवः ।
बुद्ध्यधीनो बुद्धितमो बुद्धिलक्षणलालसः ॥ ११०॥
बुद्धिगौरवदाता च बुद्धि दाता बुद्धिप्रदः ।
बुध्योक्तबुद्धिहर्ता च बुद्धिबुद्धिवर्धनः ॥ १११॥
बुद्धिरुद्योगकर्ता च बुद्धिदाता बुद्ध्युत्करः ।
बुद्ध्याचारो बौद्धरूपो बौद्धावतारधृक् सदा ॥ ११२॥
बूं बूं बः बीजस्वरूपो बूं क्षूं हूं मुकुटेश्वरः ।
बूं क्लीं हूं चण्ड कर्ता चलः बूं क्लीं हुं फट् स्वाहा ॥ ११३॥
वेदज्ञो वेदकर्ता च वेदपाठविशारदः ।
वेदप्रियो वेदमयो वेदविद्याविधारकः ॥ ११४॥
वेदपाठकरो वेदव्याख्यानकरणक्षमः ।
वेदाङ्गो वेदरूपश्च वेदमन्त्रस्वरूपान् ॥ ११५॥
वेदवन्द्यो वेदप्राणो वेदपाठो विदाश्रयः ।
वेदान्तगीतचरितो वेदगीतप्रवाहकः ॥ ११६॥
वेदधर्मसम्पन्नोथ वेदधर्मनिकृन्तनः ।
वैद्यो वैद्यपतिर्वै द्यो वैद्यनायकसुन्दरः ॥ ११७॥
वैद्यराजोथ वैद्येशो वैद्यराजनमस्कृतः ।
वैद्यप्रियो वैद्यप्रीतिर्वैद्यत्राणगमोध्यतः ॥ ११८॥
वैद्यनीतिर्गुणो वैद्यो वैद्यानां प्रतिपालकः ।
वैद्यहर्ता वैद्यकरो वैद्यो वैद्यपतिप्रियः ॥ ११९॥
वैद्यराजशिरसिजो वैद्यराजशिषप्र ।
वैद्यराजार्चितपदो वैद्यराजनमस्कृतः ॥ १२०॥
वैद्यराजो वैद्यवेशो वैद्यराजभयावहः ।
बों बों बः बीजरूपश्च बौं बौं बौं बीजरूपकः ॥ १२१॥
वैदेहीवैनको वेद्यो वैद्याचारप्रधारकः ।
वैश्याचारो वैश्यश्रेष्ठो वैश्यानां कुलदेवता ॥ १२२॥
वीरभद्रोथ वीरेशो वीरेन्द्रो वन्दितपदः ।
वीर वन्द्यो वीरप्राणो वीरबाहुर्वीराश्रयः ॥ १२३॥
वीरदैत्यप्राणहारी वीरदैत्यापहारकः ।
वीरार्णवहरो वीरो वीराणां प्राणवल्लभः ॥ १२४॥
वीरधर्मसदाराध्यो वीरधर्मनिकेतनः ।
वीरदैत्यप्राणत्राता वीरदैत्यबलप्रदः ॥ १२५॥
वीरगर्जितसम्पूर्णो वीरब्रह्माण्डगर्जितः ।
वीरपुत्रपरित्राता वीरपुत्रवरप्रदः ॥ १२६॥
वीरपुत्रप्रियसखो वीरपुत्रभयापहः ।
वीरपुत्राभिशमनो वीरपुत्राहिनाशकः ॥ १२७॥
वीरपुत्रप्राणत्राता वीरभक्तिपरायणः ।
वीरविज्ञानविभवो वीरबाहुवरप्रदः ॥ १२८॥
वीरबाहुस्तुतो वीरो बहुशः शापहारकः ।
वीरबाहुप्रियो वीरो बहुगौरववर्द्धनः ॥ १२९॥
वीरबाहुपरित्राता वीरबाहुसुखप्रदः ।
विश्वभुग्विश्वश्रेष्ठोथ विश्वक्षेत्रकरस्तथा ॥ १३०॥
बालार्कवर्णो बालोथ बालार्कतेजसः परः ।
बालो बालप्रियो बालो बालक्रीडापरायणः ॥ १३१॥
वामनो वाग्भवाकारो वाचालो वाक्पतिप्रियः ।
वाचामगोचरो वान्तो वीणावेणुधरोपरः ॥ १३२॥
वाग्भवो वाक्पतिः श्रेष्ठो वाग्देवीप्रियनन्दनः ।
वाग्देवीहृदयानन्दो वाग्देवीगर्भसम्भवः ॥ १३३॥
वाक्सिद्धो वाक्पतिप्राणो वाग्घ्रदो वाक्स्वरूपकः ।
बाणप्रचारो बाणेशो बाणसारविवेकवित् ॥ १३४॥
बाणभूर्बाणसम्पन्नो बाणनन्दितमानसः ।
बाणसन्धानचतुरो बाणसंशयसुन्दरः ॥ १३५॥
बाणयष्ठी बाणधरो बाणसञ्चिसचेतसः ।
बाणरुद्यानभृन्नित्यं बाणज्ञो बाणपादकः ॥ १३६॥
बाणाकारौ बाणकरो बाणप्रियविवर्द्धनः ।
बाणगूढधरो बाणबाधसन्धानचेष्टितः ॥ १३७॥
बाणदो बाणसौहार्दो बाणलाञ्छनतत्त्ववित् ।
वाणीसंस्कृतसञ्चारो वाणीतत्त्वविवेचकः ॥ १३८॥
वरदो वरदः स्वस्थो वरदोभयदायकः ।
वरदद्रणयः पाहुर्वसिष्ठाश्रमसेविनः ॥ १३९॥
वसिष्ठो वसिष्ठाराद्ध्यो वसिष्ठानन्ददायकः ।
वसिष्ठाभीष्टवरदो वसिष्ठाभयदायकः ॥ १४०॥
वसिष्ठप्राणवशको वसिष्ठगणधारकः ।
वामनो वल्लभो वन्द्यो वनमाला विभूषणः ॥ १४१॥
वनस्थो वनजो वेद्यो वनराजो वनाश्रयः ।
वनेचरो वनाधीशो वानरीवनसेवितः ॥ १४२॥
वानरो वानराधीशो वानरशत्रुनाशनः ।
वानप्रस्थाश्रमकृतो वानप्रस्थयोगप्रदः ॥ १४३॥
ब्रह्मयोनिर्बृहद्योनि विश्वयोनिर्विवेकवान् ।
ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्ब्राह्मणप्रियः ॥ १४४॥
ब्रह्मदो ब्राह्मणात्मा च ब्रह्मविद्याप्रकाशकः ।
ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्राह्मणोत्तमः ॥ १४५॥
ब्रह्मपुत्रविधेयात्मा ब्रह्मसूत्रार्थनिर्णयः ।
ब्रह्मगौरवदाता च ब्रह्माण्डो ब्रह्माण्डेश्वरः ॥ १४६॥
व्योमगम्यो व्योमेशानां व्योमेशभवसुन्दरः ।
व्योमगम्यो व्योमधारो ब्रह्मगीतप्रचारकः ॥ १४७॥
व्योमब्रह्मोपगीतश्च व्योमज्ञो व्योमपारदः ।
व्योमचरो व्योमरूपो व्योमकेशोति शोभनः ॥ १४८॥
व्यालाधिपो व्यालेशानो व्यालस्थो व्यालगः सदा ।
व्यालमुखो व्यालकर्णो व्यालायतनशोभनः ॥ १४९॥
व्यालशायी व्यालश्रेष्ठो व्याघ्राजिनप्रधारकः ।
वृषाकपी वृषेयात्मा वृषारूढो वृषोदरः ॥ १५०॥
वृषहा वृषभश्रेष्ठो वृषपर्वा वृषोदरः ।
वृषगम्यो वृषेशानो वृषगतिवृहच्छिखः ॥ १५१॥
ब्रह्मधर्मप्रचारोथ बृहच्छत्रप्रपाठकः ।
बृहद्गतिबृहत्कण बृहद्दन्तालिशोभनः ॥ १५२॥
विश्वात्मा विश्वकर्मा च विश्वेषां परमो हितः ।
विश्वाश्रयो विश्वव्यापी विश्वबन्धुर्विश्वक्रतुः ॥ १५३॥
विश्वकर्ता विश्वभर्ता विश्वेशो विश्वभूषणः ।
विभावसुश्च सम्पन्नो विश्वावसुसमागमः ॥ १५४॥
विश्वावसुप्रपूज्यश्च विश्वावसुस्वरूपकः ।
विन्ध्याचलनिवासश्च विन्ध्याचलप्रकारणः ॥ १५५॥
विद्रुमवर्णो विद्रुमोथ विद्रुमायासरारजः ।
वह्नीन्द्रो बीजराजेशो बों बों कों बौद्ध कान्तकः ॥ १५६॥
वां बां बू बीजवणाद्यो बां बां वूं हुं वषट् स्वाहा नमः ।
वङ्कारभैरवो राध्यो वकाराक्षरशो भनः ॥ १५७॥
वं वं कूकूटसंसेख्यो वं वं कपालिकेशरः ।
वं वं ताण्डवचण्डाख्यो वं वं भूतेशभैरवः ॥ १५८॥
वं हं स्वाहा घोररूपं वं हूं क्लं कामदायकः ।
वैं ह्रीं ह्रां कालान्तकश्चैव वं ह्रं लं तानवर्द्धनः ॥ १५९॥
वं ह्रीं ह्रुं चण्ड निर्नाशो वं ह्रीं ह्रुं वीरभैरवः ।
वौषट्रूपोथ विश्वारौ वं ह्रं ह्रुं विश्वरूपकः ॥ १६०॥
वुं क्लुं ह्रुं उठ रूपोथ वुं क्लुं ह्रुं फट् वं नमः ।
वुं ह्लुं स्वयं भुभूषाढ्यो ब्रुं ह्रीं ह्रुं लिङ्गरूपकः ॥ १६१॥
ब्रुं भैरव वुं योगीशो ब्रुं बुं मानव सुन्दरः ।
वुं ह्रुं विज्ञानभैरवो वुं ह्रुं ह्रीं ममृतानन्द ॥ १६२॥
ब्रुं ह्रुं ह्रीं सिद्धभैरवः असिताङ्गभैरवः ।
वुं ह्रीं ह्रुं रुरुभैरवः ह्रीं ह्रुं चडभैरवः ॥ १६३॥
ब्रुं ह्रीं ह्रुं क्रोधभैरवो वुं ह्रुं उन्मत्तभैरवः ।
वुं ह्रुं अघोरभैरवः वुं ह्रीं ह्रुं भीतिभैरवः ॥ १६४॥
ब्रुं ह्रुं संहृतिभैरवः ।
ब्रुं ह्रुं संहारभैरवः ॥ ब्रुं ह्रुं अघोरभैरवः ब्रुं ह्रुं विमलभैरवः ॥ १६५॥
वुं ह्रीं ह्रुं ज्ञानदश्चैव वुं ह्रीं ह्रुं महामोदकः ।
वुं ह्रीं ह्रुं वह्निभैरवः वुं वुं महारिक्तभैरवः ॥ १६६॥
वुं ह्रुं महायोगनरः वुं महामोहनाशनः ।
वुं ह्रीं ह्रुं योगकिन्नरः वुं ह्रुं कामविनाशकः ।
वुं ह्रीं ह्रां कामविदाढ्यो वुं ह्रीं ह्रुं मन्मथेश्वरः ॥ १६७॥
वुं ह्रुं धनपतेश्वरः पुं ह्रुं वैकुण्ठनायकः ।
ब्रुं ह्रीं ह्रुं फट्स्वरूपोथ वुं ह्रीं ह्रुं कालफट्तथा ॥ १६८॥
ब्रुं ह्रुं ह्रीं फट् शीर्षोथ ब्रुं ह्रुं फट्नेत्रत्रयाय वौषट् ।
ब्रुं ह्रुं धूमेशभैरवो ब्रुं ह्रुं नटनागेश्वरः ॥ १६९॥
वुं ह्रुं फट् भवानीश्वरो ब्रुं ह्रुं फट्घोरभैरवः ।
ब्रुं ह्रीं ह्रुं घोसवाणाख्यो ब्रुं ह्रीं ह्रुं वादिभैरवः ॥ १७०॥
वुं ह्रीं ह्रुं दिग्भैरवोथ वुं ह्रीं हं घण्टाभैरवः ।
वुं ह्रीं ह्रुं नमनानन्दो वुं ह्रीं ह्रुं नेत्रपदेश्वरः ॥ १७१॥
वुं ह्रुं त्रिपुरभैरवः वुं ह्रुं त्रैलोक्यभैरवः ।
वुं ह्रीं ह्रुं स्तम्भनेश्वरो वुं ह्रीं ह्रुं गुणसागरः ॥ १७२॥
वुं ह्रीं ह्रुं शक्तिदायिन्यो ब्रुं ह्रीं ह्रुं बीजगर्भभृत् ।
ब्रुं ह्रीं श्रीकण्ठेश्वरो ब्रुं ह्रीं ह्रुं श्रीकण्ठेश्वरः ॥ १७३॥
वुं ह्रीं ह्रुं सूत्रभैरवः ब्रुं ह्रीं ह्रुं रक्तभैरवः ।
ब्रुं ह्रीं ह्रुं त्रिमूर्तीश्वरो वुं ह्रीं ह्रुं अर्थेशभैरवः ॥ १७४॥
वुं ह्रुं सद्योजातेश्वरो वुं ह्रुं अनुग्रहेश्वरः ।
वुं ह्रीं ह्रुं अक्रूरेश्वरो वुं ह्रीं ह्रुं चण्डिकेश्वरः ॥ १७५॥
ब्रुं ह्रुं पञ्चत्वकेश्वरो ब्रुं ह्रुं शिवोत्तमेश्वरः ।
व्रुं ह्रीं ह्रुं दारुकेश्वरो व्रुं ह्रुं सकनेत्रेश्वरः ॥ १७६॥
ब्रुं ह्रीं ह्रुं चतुराननेश्वरो व्रुं ह्रीं ह्रुं लाङ्गलीश्वरः ।
ह्रुं ह्रीं अर्धनारीश्वरो ब्रुं ह्रुं उमाकान्तेश्वरः ॥ १७७॥
ब्रुं ह्रीं ह्रुं त्रिमूर्तीश्वरो ब्रुं ह्रीं ह्रुं फट्गणेश्वरः ।
ब्रुं ह्रुं मयो बहुगुणो ब्रुं ह्रीं ह्रुं पाठतत्परः ॥ १७८॥
वुं ह्रुं फट् व्रुं ह्रुं फट् ब्रुं ह्रुं फट् ब्रुं ह्रुं फट् ।
ब्रुं ह्रुं फट् ब्रुं ह्रुं फट् स्वाहा रूपकः ॥ १७९॥
ब्रुं ह्रुं फट् ह्रुं फट् वषट् ब्रुं ह्रुं फट् ।
वौषट् ब्रुं ॐ जपसन्तुष्टोथ कं ॐ जपपरायणः ॥ १८०॥
ब्रुं ह्रुं फट् सिद्धिविद्या च ब्रुं ह्रुं फट् लक्ष्मीश्वरः ।
ब्रुं ह्रुं फट् वसुधामीनो ब्रुं ह्रुं फट् सुराधिपाइनः ॥ १८१॥
ब्रुं ह्रुं फट् शारदापुत्रो ब्रुं ह्रुं फट् माहेश्वरीपुत्रः ।
ब्रुं ह्रुं राक्षसीपुत्रो ब्रुं ह्रुं ह्रुं फट् वरेशीपुत्रकः ॥ १८२॥
ह्रुं फट् यक्षिणीपुत्रो ब्रुं ह्रुं फट् कुलेशीपुत्रः ।
ब्रुं ह्रुं फट् ज्ञानपुत्रो ब्रुं ह्रुं फट् शाकिनी पुत्रः ॥ १८३॥
ब्रुं ह्नीं तीक्ष्णदंष्टापुत्रो ब्रुं ह्रीं तीक्ष्णजिह्वापुत्रः ।
ब्रुं नं फट् हाकिनीपुत्रो ब्रुं ह्रुं फटूशाकिनी पुत्रः ॥ १८४॥
ब्रुं ह्रुं फट् डाकिनीपुत्रो ब्रुं ह्रुं फट् लाकिनीपुत्रः ।
ब्रुं ह्रुं फट् मोहिनीपुत्रो ह्रुं फट् ठागिनीपुत्रः ॥ १८५॥
ब्रुं ह्रुं फट् स्तम्भिनीपुत्रो ह्रुं फट् जृम्भणीपुत्रः ।
ह्रुं फट् उर्वशीपुत्रो ह्रुं फट् मेनकापुत्रः ॥ १८६॥
ब्रुं ह्रुं फट् रम्भापुत्रो ब्रुं ह्रुं फट् घृताचीपुत्रः ।
ब्रुं ह्रुं ऊर्ध्वमुखीपुत्रो ब्रुं ह्रुं उर्ध्वकेशीपुत्रः ॥ १८७॥
ब्रुं हं फट् तुडिपुत्रोथ ब्रुं ह्रुं फट् लोलाक्षीपुत्रः ।
ब्रुं ह्रुं ललजिह्वापुत्रो ब्रुं ह्रुं फट् रक्ताक्षापुत्रः ॥ १८८॥
ब्रुं ह्रुं फट् गन्दिनीपुत्रो ब्रुं ह्रुं फट् डंशि नीपुत्रः ।
ब्रुं ह्रुं फट् दण्डिनीपुत्रो ब्रुं ह्रुं फट् ध्वजिनीपुत्रः ॥ १८९॥
ब्रुं फट् खड्गिनीपुत्रो ब्रुं ह्रुं फट् शङ्खिनी पुत्रः ।
ब्रुं ह्रुं फट् कम्पिनीपुत्रो ब्रुं ह्रुं फट् हासिनीपुत्रः ॥ १९०॥
ब्रुं ह्रीं फट् तारिणीपुत्रो ब्रुं ह्रुं फट् पुरायिपुत्रः ।
ब्रुं ह्रुं फट् कालीपुत्रो ब्रुं ह्रुं फट् कपालीपुत्रः ॥ १९१॥
ब्रुं ह्रुं फट् तारिणीपुत्रो ब्रुं ह्रुं फट् त्रिपुरापुत्रः ।
ब्रुं ह्रुं फट् षोडशीपुत्रो ब्रुं नं फट् भुवनेशीपुत्रः ॥ १९२॥
ब्रुं ह्रुं फट् शन्वेशीपुत्रो ब्रुं ह्रुं फट् धूमावतीपुत्रः ।
ब्रुं ह्रुं फट् बगलापुत्रः ब्रुं ह्रुं फट् मातङ्गीपुत्रः ॥ १९३॥
ह्रुं फट् बगलापुत्रो ब्रुं ह्रुं फटू त्रिकुटापुत्रः ।
ब्रुं ह्रुं फट् अचलापुत्रो ब्रुं ह्रुं फट् भूधरापुत्रः ॥ १९४॥
ब्रुं ह्रुं फट् कल्मषापुत्रो ब्रुं ह्रुं फट् कल्पासिपुत्रः ।
ब्रुं ह्रुं फट् भोगदापुत्रो ब्रुं ह्रुं फट् भाविकापुत्रः ॥ १९५॥
ब्रुं ह्रुं फट् विजयापुत्रो ब्रुं ह्रुं फट् कुरूपापुत्रः ।
ब्रुं ह्रुं फट् ईश्वरीपुत्रो ब्रुं ह्रुं फट् रेवतीपुत्रः ॥ १९६॥
ब्रुं ह्रुं फट् त्रिनेत्रापुत्रो ब्रुं ह्रुं फट् कुरूपापुत्रः ।
ब्रुं ह्रुं फट् स्वरूपापुत्रो ब्रुं ह्रुं फट् त्रिपुरापुत्रः ॥ १९७॥
ब्रुं ह्रुं फट् चर्चिकापुत्रो ब्रुं ह्रुं फट् अविकापुत्रः ।
ब्रुं ह्रुं फट् वैदमविपुत्रो ब्रुं ह्रुं फट् कौशिकी पुत्रः ॥ १९८॥
ब्रुं ह्रुं फट् वाराहीपुत्रो ब्रुं ह्रुं फटू माहेश्वरीपुत्रः ।
ब्रुं ह्रुं फट् भद्रापुत्रो ब्रुं ह्रुं फट् धृतीपुत्रः ॥ १९९॥
ब्रुं ह्रुं फट् शान्तिपुत्रोथ ब्रुं ह्रीं ह्रुं फट् शिवापुत्रः ।
ब्रुं ह्रुं फट् क्षमापुत्रो ब्रुं ह्रुं फट् सिद्धिपुत्रकः ॥ २००॥
ब्रुं ह्रुं फट् तुष्टिपुत्रो ब्रुं ह्रुं फट् सिद्धिपुत्रकः ।
ब्रुं ह्रुं फट् रतिपुत्रोथ ब्रुं ह्रुं फट् श्रीपुत्रकः ॥ २०१॥
ब्रुं ह्रुं फट् दीप्तापुत्रो ब्रुं ह्रुं फट् कान्तिपुत्रकः ।
ब्रुं ह्रुं फट् लक्ष्मीपुत्रो ब्रुं ह्रुं फट् श्रीपुत्रकः ॥ २०२॥
ब्रुं ह्रुं फट् दीप्तापुत्रो ब्रुं ह्रुं फट् कान्तिपुत्रकः ।
ब्रुं ह्रुं फट् लक्ष्मीपुत्रो ब्रुं ह्रुं फट् श्रीपुत्रकः ॥
ब्रुं ह्रुं फट् रतिपुत्रोथ ब्रुं ह्रुं फट् ब्रह्मपुत्रक ।
ब्रुं ह्रुं फट् कदमापुत्रो ब्रुं ह्रुं फट् आर्यापुत्रकः ॥ २०३॥
ब्रुं ह्रुं फट् फट् सतीपुत्रोथ ब्रुं ह्रुं फट् रुन्थतिपुत्रः ।
ब्रुं ह्रुं फट् गङ्गापुत्रोथ ब्रुं ह्रुं फट् गोमतीपुत्रः ॥ २०४॥
ब्रुं ह्रुं फट् रेवापुत्रोथ ब्रुं ह्रुं फट् यमुनापुत्रः ।
ब्रुं ह्रुं फट् भाद्रापुत्रोथ ब्रुं ह्रुं फट् अत्रेयी पुत्रकः ॥ २०५॥
ब्रुं ह्रुं फट् कौशिकीपुत्रो ब्रुं ह्रुं फट् भोगवतीसुतः ।
ब्रुं ह्रुं बाहुदापुत्रश्च ब्रुं ह्रुं कर्मनाशापुत्रकः ॥ २०६॥
ब्रुं ह्रुं कूष्माण्डीपुत्रश्च ब्रुं ब्रुं ह्रीं राक्षसी सुतः ।
ब्रुं ह्रुं दानवीपुत्रश्च ब्रुं ह्रुं पिशाचिपुत्रस्तथा ॥ २०७॥
वह्निगर्भो वह्निनेत्रो वह्नितेजगतीति च ।
वह्नि दृष्टिर्वह्निशान्तो वह्निरूपश्च वह्निभूः ॥ २०८॥
वायुगर्भो वायुगतिर्वायुवाहनतत्परः ।
बाधाकरो बीजरूपो बाधा काशपरायणः ॥ २०९॥
वायुविक्रमसञ्चारी वायुदुर्गतिविक्रमः ।
वह्निह्रुं फट् विघ्नेश्वरो वह्निह्रुं फट् विप्रोत्तमः ॥ २१०॥
बं बं एकदन्तभैरवो बं बं विघ्नकृद्भैरवः ।
वं मोदकभैरवोथ वं प्रमोदभैरवस्तथा ॥ २११॥
वं दुर्मुखभैरवो वं सुसुखभैरवेशः ।
वं प्रमोदभैरवोथ वं शोनाभैरवस्तथा ॥ २१२॥
वं उन्मत्तभैरवोथ वं मत्तभैरवस्तथा ।
वं खरमुखभैरवो वै वं लम्बोदरभैरवः ॥ २१३॥
वं वं अमोदभैरवो वं वं मुण्डभैरवस्तथा ।
वक्रतुण्डभैरवो वं वं वामदेवभैरवः ॥ २१४॥
वं दुर्गभैरवश्चैव वं मेघनादभैरवः ।
वं सेनाभैरवश्चैव वं भक्षप्रियभैरवः ॥ २१५॥
वं अरुणमै रवोथ वं श्वेतभैरवस्तथा ।
वं पाण्डुभैरवश्चैव वं नीतिभैरवस्तथा ॥ २१६॥
वं शामभैरवश्चैव वं हरिद्वाख्यभैरवः ।
वं उच्छिष्टभैरवोथ वं कृष्णभैरवस्तथा ॥ २१७॥
वैकल्यकलितश्चैव वैकल्य विधिदर्शिनः ।
वैकुण्ठलोकमङ्गलो बैकुण्ठधामना यकः ॥ २१८॥
वैकुण्ठधामसन्मान्यो वैकुण्ठधामपरायणः ।
वैणमानससञ्चारो वैणमानसमोहनः ॥ २१९॥
वैणसम्भागगमनो वैणकुण्ड निमज्जनः ।
वैणचक्रसमाकीर्णो वैणवीभवनः परः ॥ २२०॥
वैणच क्रो वैणवोथ वैणचक्रनिवारणः ।
वैणावणो वैणधर्मा वैणकर्मपरायणः ॥ २२१॥
वैणसन्तानसम्प्रीतो वैणसन्तानदायकः ।
वैणकर्षणदो वैणताण्डवानन्ददायिनः ॥ २२२॥
वैणगणरतो वैणो वैणमालाविभूषणः ।
वैणसंलापसन्तुष्टो वैणपश्चान्नभोजनः ॥ २२३॥
वैष्णवो वैष्णवाचारो वैष्णवाचारतत्परः ।
वषट्स्वाहास्वरूपोथ नामसहस्रमुत्तमम् ॥ २२४॥
सारूप्यनामसाहस्रं भैर वस्य प्रकाशितम् ।
देवीशत्रुगणाः सर्वे गच्छन्ति यममन्दिरे ॥ २२५॥
एकरात्रिप्रयोगेण सप्ताहाद्रिपुनाशनम् ।
ग्रहणे राशिनः स्थित्वा य एकान्ते महात्मनः ॥ २२६॥
विल्वस्य मूले प्रजपेदयुतं श्रद्धया युतः ।
तस्य शत्रुगणेन्योन्यं जायते कलहो भृशम् ॥ २२७॥
श्मशाने तु समागत्य दिक्पालबलिमाहरेत् ।
तत्कृष्णान्नादिसम्मिश्रं निर्भयः साधकोत्तमः ॥ २२८॥
भवेयुस्तत्क्षणादेव सिद्धा विद्याश्चतुर्दश ॥ २२९॥
स पश्येद्देवतां तत्र वरदानकृतोद्यमाम् ।
यद्वदेत्प्रथमं देवी तत्र भूमौ समाहितः ॥ २३०॥
द्वितीयवाक्योऽपि तथा यत्नवान्प्रयतो भवेत् ।
अथ सुश्लक्ष्णया वाचा प्रार्थयेन्मनसः फलम् ॥ २३१॥
ततोन्यं परमं वक्ष्ये विधिं लोकैकहेतवे ।
साद्यकश्चाति रमणां वाञ्छयेदपि यो स्त्रियम् ॥ २३२॥
स्थित्वा कनकमलेऽपि व्याघ्रचर्मणि देशिकः ।
रक्ताम्बरपरीधानो रक्त माल्यानुलेपनः ॥ २३३॥
पूजयित्वा महेशानं कनकपुष्पेण वार्चितम् ।
यन्नाम्ना प्रयतो मन्त्रं प्रजपेच्च विच क्षणः ॥ २३४॥
क्षणार्द्धे कर्षयेन्नारीमुर्वशीमपि मानवः ।
अनेनैव विधानेन द्रव्यस्याकृष्टिरुत्तमा ॥ २३५॥
कुजेष्टम्यां वटस्येह मूले स्थित्वा विचक्षणः ।
रात्रौ र्भयचित्तस्तु प्रजपेदयुतं तथा ॥ २३६॥
ध्यात्वा देवं वात रूपं वाचा बन्धनमुत्तमम् ।
सञ्जाप्याष्टोत्तरशतं यस्मै दद्याज्जपेच्छतम् ॥ २३७॥
स प्राप्नोति पुत्रफलं चिरायुः सहितं मुदा ।
वाचास्तम्भनकामस्तु हरिद्राफलमिश्रितः ॥ २३८॥
एकरात्रौ जपेद्यस्य नाम्ना प्रयतमानसः ।
तस्य जह्वा क्षणात्स्तम्भं मान्यश्चापि वृहस्पतिः ॥ २३९॥
क्षणात्स्तम्भनकामस्तु सर्वत्र लवणान्वितम् ।
कृत्वा तु जुहुयाद्धीमान्सर्वालापांस्तु साधकः ॥ २४०॥
रोगाणां शमने प्रीतिर्होमैक्षुगजीसंयुतम् ।
जुहुयाद्यस्य नाम्ना तु तस्य नश्यन्त्युपद्रवाः ॥ २४१॥
एवं विधानेन सुधीः साधयित्वा विचक्षणः ।
स्तोत्रेद निर्भयं कुर्यात्साधयेत्साधकोत्तमः ॥ २४२॥
आदौ सुविद्याध्यानं च विनियोगं ततः स्मरेत् ।
पश्चात्पाठं प्रकुर्वाणो भुक्तिं मुक्तिं च विन्दति ॥ २४३॥
संस्थापयेदिष्टमूर्ति पठेन्नामसहस्रकम् ।
पूजां कर्तुं महेशानि कलशस्य जलेन च ॥ २४४॥
नाम्नामेतज्जपेद्देवं सर्वाज्ञानविनाशकृत् ।
अर्कपुष्पसहस्राणि कर्णिकाकुसुमानि वा ॥ २४५॥
प्रतिनाम समर्पयेत्कलशस्य जलेन च ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ २४६॥
एकवारं पठेद्रात्रौ सर्वपापविनाशनम् ।
द्विवारं पठनादेव सान्निध्यकरणं तथा ॥ २४७॥
त्रिवारं च पठेन्नित्यं सर्वग्रहनिवारणम् ।
वर्षैकेन महादेवि शिवरूपो हि निश्चितम् ॥ २४८॥
देयं शाक्ताय शैवाय स्वभक्ताय विशेषतः ।
आत्मतत्त्वं तु विज्ञाय कालीभक्तिपराय च ॥ २४९॥
अभक्तेभ्यः कुशिष्येभ्यः कृपणाय शठाय च ।
नेदं दद्यान्महेशानि ब्रह्महत्या परो भवेत् ॥ २५०॥
भैरवानन्दहृदयं भैरवानन्दभैरवम् ।
हरिः साक्षाद्भवेद्भक्तः भैरवो नात्र संशयः ॥ २५१॥
स्तवनं बटुकस्येदं यः पठेत्प्रयतो नरः ।
सर्वसिद्धिमवाप्नोति सत्यमेव न संशयः ॥ २५२॥
ज्ञानेन तत्परं साक्षाद्ध्यानेन च शिवेन च ।
दत्तात्रेयसमो ज्ञाने गङ्गेव मलनाशने ॥ २५३॥
कामदेव इव स्त्रीणां गन्धर्व इव रूपवान् ।
शत्रुनाशे यमः साक्षाद्धने धनपतिर्यथा ॥ २५४॥
स भवेत्साधकः श्रेष्ठः सत्यं परवचोदितम् ।
य इदं पठते स्तोत्रं शिवेन सह मोदते ॥ २५५॥
ज्ञानधर्मार्थभोगी स्यान्मृते मोक्षपतिर्भवेत् ।
सत्यंसत्यं महादेवि सत्यंसत्यं महेश्वरि ॥ २५६॥
स्तवस्यास्य प्रभावेन शिवेन सह मोदते ।
शिवरूपं गुरुं ध्यात्वा गुरुरूपं शिवं स्मरेत् ॥ २५७॥
एवं भूत्वा पठेद्देवि सर्वसिद्धिमवाप्स्यति ॥ २५८॥
इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे
उपसनास्तबके श्रीबटुकभैरवोपासनाध्याये
भैरवयामलतन्त्रे श्रीबकारादिबटुकभैरव
सहस्रनामस्तोत्रनिरूपणं नाम प्रकरणं षष्ठम् ॥ ६॥
The bijAkshara-s differ between the
two source texts linked at the end.
Proofread by Rajesh Thyagarajan