बटुकभैरवब्रह्मकवचराजः अथवा बटुकेश्वरब्रह्मकवचं अथवा भैरवकवचराजः
(रुद्रयामलोक्तः)
अथ विनियोगः -
अस्य श्रीबटुकभैरवकवचराजस्य
भैरवऋषिरनुष्टुप्छन्दः
श्री बटुकभैरवो देवता
मम बटुकभैरवप्रसाद सिध्यर्थे जपे विनियोगः ।
ॐ पातु शिरसि नित्यं पातु ह्रीं कण्ठदेशके ।
बटुकाय पातु नाभौ चापदुद्धारणाय च ॥ १॥
कुरुद्वयं लिङ्गमूले त्वाधारे बटुकाय च ।
सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥ २॥
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ।
ॐ ह्रीं बटुकाय सततं सर्वाङ्ग मम सर्वदा ॥ ३॥
ॐ ह्रीं पादौ महाकालः पातु वीरासनेहृदि ।
ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ॥ ४॥
गणराट् पातु जिह्वायामष्टभिः शक्तिभिः सह ।
दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ॥ ५॥
विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदा ।
अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ॥ ६॥
असिताङ्ग शिरः पातु ललाटं रुरुभैरवः ।
चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ॥ ७॥
उन्मत्तभैरवः पातु हृदयं मम सर्वदा ।
नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ॥ ८॥
संहारभैरवः पातु मूलाधारं च सर्वदा ।
बाहुयुग्मं सदा पातु भैरवो मम केवलम् ॥ ९॥
हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ।
प्राणापानौ समानं च उदानं व्यानमेव च ॥ १०॥
रक्षन्तु द्वारमूले तु दशदिक्षु समन्ततः ।
प्रणवः पातु सर्वाङ्गगं लज्जाबीजं महाभये ॥ ११॥
॥ इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥
Notes:
The procedure of application of this Kavacam कवचम् needs to be learned from an able Guru गुरु. Some pointers to the same are given in one of the referenced source publications.
Proofread by Ruma Dewan